Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 2 / 28

ऊ॒र्ध्वो नु सृ॒ष्टास्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वाँ३। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥ 28॥

Veda : Atharvaveda | Kand : 10 | Sukta : 2 | Paryay : | Mantra No : 28

In Hindi:

ऋषि : नारायणः | देवता : ब्रह्मप्रकाशनम्, पुरुषः | छन्द : भरिग्बृहती | स्वर :

विषय : मनुष्यशरीर की महिमा का उपदेश।

पदपाठ : ऊ॒र्ध्व: । नु । सृ॒ष्टा३: । ति॒र्यङ् । नु । सृ॒ष्टा३: । सर्वा॑: । दिश॑: । पुरु॑ष: । आ । ब॒भू॒वाँ३ । पुर॑म् । य: । ब्रह्म॑ण: । वेद॑ । यस्या॑: । पुरु॑ष: । उ॒च्यते॑ ॥२.२८॥

पदार्थ : (नु) क्या (ऊर्ध्वः) ऊँचा (सृष्टाः ३) उत्पन्न होता हुआ और (नु) क्या (तिर्यङ्) तिरछा (सृष्टाः ३) उत्पन्न होता हुआ (पुरुषः) वह मनुष्य (सर्वाः दिशः) सब दिशाओं में (आ) यथावत् (बभूवाँ ३) व्यापा है ? (यः) जो [मनुष्य] (ब्रह्मणः) ब्रह्म [परमात्मा] की (पुरम्) [उस] पूर्ति को (वेद) जानता है, (यस्याः) जिस [पूर्ति] से [वह परमेश्वर] (पुरुषः) पुरुष [परिपूर्ण] (उच्यते) कहा जाता है ॥२८॥ "

भावार्थ :

टिप्पणी :२८−(ऊर्ध्वः) उच्चस्थः (नु) प्रश्ने। किम् (सृष्टाः ३) विचार्यमाणानाम्। पा० ८।२।९७। इति टेः प्लुतः। सम्यक् सृष्टः (तिर्यङ्) वक्रगामी (नु) (सृष्टाः ३) (सर्वाः) (दिशः) (आ) समन्तात् (बभूवाँ ३) विचार्यमाणानाम्। पा० ८।२।९७। टेः प्लुतः। अणोऽप्रगृह्यस्यानुनासिकः। पा० ८।४।५७। इत्यनुनासिकः। बभूव। व्याप (पुरम्) क्विप् च। पा० ३।२।७६। पॄ पालनपूरणयोः-क्विप्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारादेशः। पूर्तिम्। नगरीम् (यः) योगी (ब्रह्मणः) परमेश्वरस्य (वेद) जानाति (यस्याः) पुरः सकाशात्। पूर्तिकारणात् (पुरुषः) पुरः कुषन्। उ० ४।७४। पुर अग्रगमने-कुषन्, यद्वा, पॄ पालनपूरणयोः-कुषन्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारः। यद्वा पुर्+षद्लृ गतौ, यद्वा, शीङ् स्वप्ने षस स्वप्ने वा−ड, पृषोदरादिरूपम्। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा-निरु० २।३। अग्रगामी। पूरयिता। परिपूर्णः। परमेश्वरः। मनुष्यः (उच्यते) कथ्यते ॥