Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 3 / 6

स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥ 6॥

Veda : Atharvaveda | Kand : 10 | Sukta : 3 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : अथर्वा | देवता : वरणमणिः, वनस्पतिः, चन्द्रमाः | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : सब सम्पत्तियों के पाने का उपदेश।

पदपाठ : स्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒पम् । मृ॒ग: । सृ॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॒रि॒ऽक्ष॒वात् । श॒कुने॑: । पा॒प॒ऽवा॒दात् । अ॒यम् । म॒णि: । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.६॥

पदार्थ : (यदि) जो तू (सुप्त्वा) सोकर (पापम्) बुरे (स्वप्नम्) स्वप्न को (पश्यासि) देखे, (यति=यदि) जो (मृगः) वनैला पशु (अजुष्टाम्) अप्रिय (सृतिम्) मार्ग में (धावात्) दौड़े। (शकुनेः) पक्षी [गिद्ध वा चील्ह] के (परिक्षवात्) नाक के फुरफुराहट से और (पापवादात्) [मुख के] कठोर शब्द से (अयम्) यह (मणिः) प्रशंसनीय (वरणः) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (वारयिष्यते) रोकेगा ॥६॥"

भावार्थ :

टिप्पणी :६−(स्वप्नम्) सुप्तस्य मानसिकवृत्तिभेदम् (सुप्त्वा) शयित्वा (यदि) सम्भावनायाम् (पश्यासि) अवलोकेथाः (पापम्) दुःखप्रदम् (मृगः) अरण्यपशुः (सृतिम्) मार्गम् (यति) दस्य तः। यदि (धावात्) शीघ्रं गच्छेत् (अजुष्टाम्) अप्रियाम् (परिक्षवात्) टुक्षु नासाशब्दे-अप्। नासातो वायुनिःसरणजन्यशब्दात् (शकुनेः) पक्षिणः। गृध्रचिल्हादेः (पापवादात्) दुष्टशब्दात्। अन्यद् व्याख्यातम् ॥