Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 7 / 2

कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥ 2॥

Veda : Atharvaveda | Kand : 10 | Sukta : 7 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा, क्षुद्रः | देवता : स्कन्धः, आत्मा | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : ब्रह्म के स्वरूप के विचार का उपदेश।

पदपाठ : कस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥

पदार्थ : (अस्य) इस [सर्वव्यापक ब्रह्म] के (कस्मात् अङ्गात्) कौन से अङ्ग से (अग्निः) अग्नि (दीप्यते) चमकता है, (कस्मात् अङ्गात्) कौन से अङ्ग से (मातरिश्वा) आकाश में चलनेवाला [वायु] (पवते) झोंके लेता है। (कस्मात् अङ्गात्) कौन से अङ्ग से (महः) विशाल (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमात्मा] के (अङ्गम्) अङ्ग [स्वरूप] को (मिमानः) मापता हुआ (चन्द्रमाः) चन्द्रमा (वि) विविध प्रकार (अधि मिमीते) [अपना मार्ग] मापता रहता है ॥२॥"

भावार्थ :

टिप्पणी :२−(कस्मात् अङ्गात्) (दीप्यते) प्रकाशते (अग्निः) प्रसिद्धो वह्निः (अस्य) परमेश्वरस्य (पवते) पवते गतिकर्मा-निघ० २।१४। गच्छति (मातरिश्वा) अ० ५।१०।८। आकाशे गन्ता वायुः (वि) विविधम् (मिमीते) मानं करोति स्वमार्गस्य (अधि) उपरि (चन्द्रमाः) चन्द्रलोकः (महः) महतः (स्कम्भस्य) स्कभि प्रतिबन्धे-अच्। स्तम्भस्य। सर्वधारकस्य परमेश्वरस्य (मिमानः) मानं कुर्वाणः (अङ्गम्) स्वरूपम्। अन्यत् पूर्ववत् ॥