Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 7 / 5

क्वा᳡र्धमा॒साः क्व᳡ यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥ 5॥

Veda : Atharvaveda | Kand : 10 | Sukta : 7 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अथर्वा, क्षुद्रः | देवता : स्कन्धः, आत्मा | छन्द : अनुष्टुप् | स्वर :

विषय : ब्रह्म के स्वरूप के विचार का उपदेश।

पदपाठ : क्व᳡ । अ॒र्ध॒ऽमा॒सा: । क्व᳡ । य॒न्ति॒ । मासा॑: । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒दा॒ना: । यत्र॑ । यन्ति॑ । ऋ॒तव॑: । यत्र॑ । आ॒र्त॒वा: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.५॥

पदार्थ : (क्व) कहाँ (अर्धमासाः) आधे महीने [पखवाड़े] और (क्व) कहाँ (मासाः) महीने (संवत्सरेण सह) वर्ष के साथ (संविदानाः) मिलते हुए (यन्ति) जाते हैं ? (यत्र) जहाँ (ऋतवः) ऋतुएँ और (आर्तवाः) ऋतुओं के अवयव (यन्ति) जाते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥५॥"

भावार्थ :

टिप्पणी :५−(क्व) कस्मिन् देवे (अर्धमासाः) पक्षाः (यन्ति) गच्छन्ति (मासाः) (संवत्सरेण) वर्षेण (सह) (संविदानाः) अ० २।२८।२। संगच्छमानाः (ऋतवः) वसन्तादयः कालाः (आर्तवाः) ऋतूनामवयवाः। अन्यत् पूर्ववत् ॥