Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 8 / 4

द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥ 4॥

Veda : Atharvaveda | Kand : 10 | Sukta : 8 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : कुत्सः | देवता : आत्मा | छन्द : त्रिष्टुप् | स्वर :

विषय : परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदपाठ : द्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥

पदार्थ : (द्वादश) बारह (प्रधयः) प्रधि [पुट्ठी अर्थात् महीने], (एकम् चक्रम्) एक पहिया [वर्ष], (त्रीणि) तीन (नभ्यानि) नाभि के अङ्ग [ग्रीष्म, वर्षा और शीत] हैं, (कः उ) किसने ही (तत्) इस [मर्म] को (चिकेत) जाना है। (तत्र) उस [पहिये, वर्ष] में (त्रीणि) तीन (शतानि) सौ (च) और (षष्टिः) साठ (शङ्कवः) शङ्क [काँटे] और (खीलाः) खीले [बड़े-छोटे दिन] (आहताः) लगे हुए हैं, (ये) जो (अविचाचलाः) टेढ़े होकर विचल नहीं होते ॥४॥ "

भावार्थ :

टिप्पणी :४−(द्वादश) (प्रधयः) प्रधितुल्यमासाः (चक्रम्) रथचक्रवद्वर्षकालः (एकम्) (त्रीणि) (नभ्यानि) रथनाभिभवानि अङ्गानि। ग्रीष्मवर्षाशीतरूपाणि (कः) विद्वान् (उ) एव (तत्) (चिकेत) ज्ञातवान् (तत्र) चक्रे (वर्षे (आहताः) हन हिंसागत्योः-क्त। आगताः। स्थापिताः (त्रीणि) (शतानि) (शङ्कवः) खरुशङ्कुपीयु०। उ० १।३६। शकि त्रासे शङ्कायां च-कु। कीलाः (षष्टिः) (च) (खीलाः) कील बन्धने-क, कस्य खः। अल्पशङ्कवः (अविचाचलाः) नित्यं कौटिल्ये गतौ। पा० ३।१।२३। अ+वि+चल गतौ-यङ् अच्। अकुटिलगतयः (ये) ॥