Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 9 / 27

अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ 27॥

Veda : Atharvaveda | Kand : 10 | Sukta : 9 | Paryay : | Mantra No : 27

In Hindi:

ऋषि : अथर्वा | देवता : शतौदना (गौः) | छन्द : पञ्चपदातिजागतानुष्टुब्गर्भा शक्वरी | स्वर :

विषय : वेदवाणी की महिमा का उपदेश।

पदपाठ : अ॒प: । दे॒वी: । मधु॑ऽमती: । घृ॒त॒ऽश्चुत॑: । ब्र॒ह्माणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । प॒द्य॒ता॒म् । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥९.२७॥

पदार्थ : (देवीः) देवी [विजयिनी] (मधुमतीः) श्रेष्ठ मधुविद्या [ब्रह्मज्ञान] वाली, (घृतश्चुतः) घृत [सारतत्त्व] बरसानेवाली (अपः) व्यापनशील [वेदवाणियों] को (ब्रह्मणाम्) ब्रह्माओं [वेदवेत्ताओं] के (हस्तेषु) हाथों में (प्रपृथक्) नाना प्रकार से (सादयामि) मैं रखता हूँ। [हे विद्वानो !] (यत्कामः) जिस उत्तम कामनावाला (अहम्) मैं (इदम्) इस समय (वः) तुम्हारा (अभिषिञ्चामि) अभिषेक करता हूँ, (तत् सर्वम्) वह सब (मे) मेरे लिये (सम् पद्यताम्) सम्पन्न हो, (वयम्) हम (रयीणाम्) अनेक धनों के (पतयः) स्वामी (स्याम) होवें ॥२७॥"

भावार्थ :

टिप्पणी :२७−(अपः) व्यापनशीला वेदविद्याः (देवीः) विजयिनीः (मधुमतीः) ब्रह्मज्ञानेन युक्ताः (घृतश्चुतः) अ० ३।३३।४। सारतत्त्वस्राविणीः (ब्रह्मणाम्) वेदज्ञानम् (हस्तेषु) (प्रपृथक्) अ० ६।१२२।५। नानाप्रकारेण (सादयामि) स्थापयामि (यत्कामः) यत्पदार्थं कामयमानः (इदम्) इदानीम् (अभिषिञ्चामि) अभिषिक्तान् करोमि (वः) युष्मान् (अहम्) (तत्) (मे) मह्यम् (सर्वम्) (सम् पद्यताम्) सम्पन्नं साधितं भवतु (वयम्) (स्याम) (पतयः) स्वामिनः (रयीणाम्) नानाधनानाम् ॥