Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 10 / 5

श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः। ये दे॒वास्तस्यां॑ प्रा॒णन्ति॑ ते व॒शां वि॑दुरेक॒धा ॥ 5॥

Veda : Atharvaveda | Kand : 10 | Sukta : 10 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : कश्यपः | देवता : वशा | छन्द : पञ्चपदातिजागतानुष्टुब्गर्भा स्कन्धोग्रीवी बृहती | स्वर :

विषय : ईश्वर शक्ति की महिमा का उपदेश।

पदपाठ : श॒तम् । कं॒सा: । श॒तम् । दो॒ग्धार॑: । श॒तम् । गो॒प्तार॑: । अधि॑ । पृ॒ष्ठे । अ॒स्या॒: । ये । दे॒वा: । तस्या॑म् । प्रा॒णन्ति॑ । ते । व॒शाम् । वि॒दु॒: । ए॒क॒ऽधा ॥१०.५॥

पदार्थ : (शतम्) सौ [बहुत से] (कंसाः) कामना करनेवाले, (शतम्) सौ (दोग्धारः) दोहनेवाले, (शतम्) सौ (गोप्तारः) रक्षा करनेवाले [पुरुष] (अस्याः) इस [शक्ति] की (पृष्ठे) पीठ पर [सहारे में] (अधि) अधिकारपूर्वक हैं। और (ये) जो (देवाः) विद्वान् लोग (तस्याम्) उस [शक्ति] में (प्राणन्ति) जीवन करते हैं, (ते) वे लोग (वशाम्) वशा [कामनायोग्य परमेश्वरशक्ति] को (एकधा) एक प्रकार से [सत्य रीति से] (विदुः) जानते हैं ॥५॥ "

भावार्थ :

टिप्पणी :५−(शतम्) शतं बहुनाम-निघ० ३।१ (कंसाः) वृतॄवदिवचिवसिहनिकमिकषिभ्यः सः। उ० ३।६२। कमु कान्तौ-स प्रत्ययः। कामयमानाः (दोग्धारः) प्रपूरयितारः। अन्वेष्टारः (गोप्तारः) रक्षितारः (अधि) अधिकारपूर्वकं (पृष्ठे) आश्रये (अस्याः) वशायाः (ये) देवाः विद्वांसः (तस्याम्) वशायाम् (प्राणन्ति) प्रकर्षेण जीवन्ति (ते) (वशाम्) म० २। कमनीयां परमात्मशक्तिम् (विदुः) जानन्ति (एकधा) एकप्रकारेण। सत्यरीत्या ॥