Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 1 / 5

त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्। अंशा॑ञ्जानीध्वं॒ वि भ॑जामि॒ तान्वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ॥ 5॥

Veda : Atharvaveda | Kand : 11 | Sukta : 1 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : ब्रह्मा | देवता : ब्रह्मौदनः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से उन्नति का उपदेश।

पदपाठ : त्रे॒धा । भा॒ग: । निऽहि॑त: । य: । पु॒रा । व॒: । दे॒वाना॑म् । पि॒तॄ॒णाम् । मर्त्या॑नाम् । अंशा॑न् । जा॒नी॒ध्व॒म् । वि । भ॒जा॒मि॒ । तान् । व॒: । य: । दे॒वाना॑म् । स: । इ॒माम् । पा॒र॒या॒ति॒ ॥१.५॥

पदार्थ : [हे मनुष्यो !] (त्रेधा) तीन प्रकार से, (देवानाम्) देवताओं [विजयी जनों] का, (पितॄणाम्) पितरों [पालक पुरुषों] का और (मर्त्यानाम्) मर्त्यों [मरणधर्मियों] का, (यः) जो (वः) तुम्हारे लिये (भागः) भाग (पुरा) पहिले से (निहितः) ठहराया हुआ है। (जानीध्वम्) तुम जानो कि (तान् अंशान्) उन भागों को (वः) तुम्हारे लिये (वि भजामि) मैं [परमेश्वर] बाँटता हूँ, (यः) जो [भाग] (देवानाम्) देवताओं का है, (सः) वह (इमाम्) इस [प्रजा-म० १] को (पारयाति) पार लगावे ॥५॥"

भावार्थ :

टिप्पणी :५−(त्रेधा) एधाच्च। पा–० ५।३।४६। त्रि-एधाच्। त्रिप्रकारेण (भागः) अंशः (निहितः) स्थापितः (यः) (पुरा) पूर्वकाले। सृष्ट्यादौ (वः) युष्मभ्यम् (देवानाम्) विजयिनाम्। श्रेष्ठपुरुषाणाम् (पितॄणाम्) पालकानां मध्यमजनानाम् (मर्त्यानाम्) मरणधर्मणां निकृष्टजनानाम् (अंशान्) भागान् (जानीध्वम्) अवगच्छत (विभजामि) वण्टयामि परमेश्वरोऽहम् (तान्) (वः) युष्मभ्यम् (यः) भागः (देवानाम्) श्रेष्ठजनानाम् (सः) (इमाम्) प्रजाम्-म० १ (पारयाति) पार कर्मसमाप्तौ-लट्। पारयेत्। पारं नयेत् ॥