Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 1 / 16

अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्। आ॑र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमिमं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ॥ 16॥

Veda : Atharvaveda | Kand : 11 | Sukta : 1 | Paryay : | Mantra No : 16

In Hindi:

ऋषि : ब्रह्मा | देवता : ब्रह्मौदनः | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से उन्नति का उपदेश।

पदपाठ : अग्ने॑ । च॒रु: । य॒ज्ञिय॑: । त्वा॒ । अधि॑ । अ॒रु॒क्ष॒त् । शुचि॑: । तपि॑ष्ठ: । तप॑सा । त॒प॒ । ए॒न॒म् । आ॒र्षे॒या: । दै॒वा: । अ॒भि॒ऽसं॒गत्य॑ । भा॒गम् । इ॒मम् । तपि॑ष्ठा: । ऋ॒तुऽभि॑: । त॒प॒न्तु॒ ॥१.१६॥

पदार्थ : (अग्ने) हे विद्वान् ! (यज्ञियः) पूजायोग्य (चरुः) ज्ञान ने (त्वा) तुझे (अधि अरुक्षत्) ऊँचा चढ़ाया है, (शुचिः) शुद्ध आचरणवाला, (तपिष्ठः) अतिशय तपवाला तू (तपसा) [ब्रह्मचर्य आदि] तप से (एनम्) इस [ज्ञान] को (तप) तपा [उपकार में ला]। (आर्षेयाः) ऋषियों में विख्यात, (दैवाः) उत्तम गुणवाले (तपिष्ठाः) बड़े तपस्वी लोग (अभिसंगत्य) सर्वथा मिलकर (इमम्) इस (भागम्) सेवनीय [ज्ञान] को (ऋतुभिः) ऋतुओं के साथ (तपन्तु) तपावें [उपकार में लावें] ॥१६॥"

भावार्थ :

टिप्पणी :१६−(अग्ने) हे विद्वन् (चरुः) भृमृशीङ्तृचरि० उ० १।७। चर गतिभक्षणयोः-उ। चरुर्मेघनाम-निघ० १।१०। चरुर्मृच्चयो भवति चरतेर्वा समुचन्त्यस्मादापः-निरु० ६।११। चरुं ज्ञानलाभं मेघं वा-दयानन्दभाष्ये, ऋक्० १।७।६। बोधः (यज्ञियः) पूजार्हः (त्वा) ब्रह्मचारिणम् (अधि अरुक्षत्) उन्नतं कृतवान् (शुचिः) शुद्धस्वभावः (तपिष्ठः) तप्तृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृलोपः। तप्तृतमः। अतिशयेन तपस्वी (तपसा) ब्रह्मचर्यादितपश्चरणेन (तप) तप्तमुपकृतं कुरु (एनम्) बोधम् (आर्षेयाः) ढश्छन्दसि। पा० ४।४।१०६। इति ऋषिः-ढ प्रत्ययो बाहुलकात्। ऋषिषु विख्यात आर्षेयः महीधरभाष्ये, यजु० ७।४६। आर्षेय, ऋषिषु साधुस्तत्सम्बुद्धौ-दयानन्दभाष्ये, यजु० २१।६१। ऋषिषु विख्याताः साधवो वा (दैवाः) दिव्यगुणयुक्ताः (अभिसंगत्य) सर्वतो मिलित्वा (भागम्) सेवनीयं बोधम् (इमम्) (तपिष्ठाः) तप्तृतमाः। तपस्वितमाः (ऋतुभिः) वसन्तादिकालविशेषैः (तपन्तु) तप्तमुपकृतं कुर्वन्तु ॥