Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 2 / 24

तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। तव॑ य॒क्षं प॑शुपते अ॒प्स्व१॒॑न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥ 24॥

Veda : Atharvaveda | Kand : 11 | Sukta : 2 | Paryay : | Mantra No : 24

In Hindi:

ऋषि : अथर्वा | देवता : रुद्रः | छन्द : जगती | स्वर :

विषय : ब्रह्मज्ञान से उन्नति का उपदेश।

पदपाठ : तुभ्य॑म् । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । तव॑ । य॒क्षम् । प॒शु॒ऽप॒ते॒ । अ॒प्ऽसु । अ॒न्त: । तुभ्य॑म् । क्ष॒र॒न्ति॒ । दि॒व्या: । आप॑: । वृ॒धे ॥२.२४॥

पदार्थ : (तुभ्यम्) तेरे [शासन मानने] के लिये (आरण्याः) वनैले (पशवः) पशु [जीव], (मृगाः) हरिण आदि, (हंसाः) हंस, (सुपर्णाः) बड़े उड़नेवाले [गरुड़ आदि], (शकुनाः) शक्तिवाले [गिद्ध चील्ह आदि] (वयांसि) पक्षी (वने) वन में (हिताः) स्थापित हैं। (पशुपते) हे दृष्टिवाले [जीवों] के रक्षक [परमेश्वर] (तव) तेरा (यज्ञम्) पूजनीय स्वरूप (अप्सु अन्तः) तन्मात्राओं के भीतर है, (तुभ्यम्) तेरे [शासन मानने] के लिये (दिव्याः) दिव्य [अद्भुत] (आपः) तन्मात्राएँ (वृधे) वृद्धि करने को (क्षरन्ति) चलती हैं ॥˜२४॥"

भावार्थ :

टिप्पणी :२४−(तुभ्यम्) तवाज्ञापालनाय (आरण्याः) अरण्ये भवाः (पशवः) जन्तवः (मृगाः) हरिणादयः (वने) अरण्ये (हिताः) स्थापिताः (हंसाः) पक्षिविशेषाः (सुपर्णाः) शोभनपतनाः (शकुनाः) शक्तिमन्तो गृध्रचिल्हादयः (वयांसि) पक्षिणः (तव) (यक्षम्) यक्ष पूजायाम्-घञ्। पूज्यं स्वरूपम् (पशुपते) हे दृष्टिमतां जीवानां रक्षक (अप्सु) आपो व्यापिकास्तन्मात्राः-दयानन्दभाष्ये, यजु० २७।२५। तन्मात्रासु (तुभ्यम्) (क्षरन्ति) संचरन्ति) (दिव्याः) अद्भुताः (आपः) तन्मात्राः (वृधे) वर्धनाय ॥˜