Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 4 / 6

अ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन्। आयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ॥ 6॥

Veda : Atharvaveda | Kand : 11 | Sukta : 4 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : भार्गवो वैदर्भिः | देवता : प्राणः | छन्द : अनुष्टुप् | स्वर :

विषय : प्राण की महिमा का उपदेश।

पदपाठ : अ॒भिऽवृ॑ष्टा: । ओष॑धय: । प्रा॒णेन॑ । सम् । अ॒वा॒दि॒र॒न् । आयु॑: । वै । न॒: । प्र । अ॒ती॒त॒र॒: । सर्वा॑: । न॒: । सु॒र॒भी: । अ॒क॒: ॥६.६॥

पदार्थ : (अभिवृष्टाः) सींची हुई (ओषधयः) ओषधें [अन्न आदि] (प्राणेन) प्राण [जीवनदाता परमेश्वर] से (सम्) मिलकर (अवादिरन्) बोलीं−“(नः) हमारी (आयुः) आयु को (वै) निश्चय करके (प्र अतीतरः) तूने बढ़ाया है, (नः सर्वाः) हम सबको (सुरभीः) सुगन्धित (अकः) तूने बनाया है” ॥६॥"

भावार्थ :

टिप्पणी :६−(अभिवृष्टाः) अभिषिक्ताः (ओषधयः) अन्नादिपदार्थाः (प्राणेन) म० १। जीवनप्रदेन परमेश्वरेण (सम्) मिलित्वा (अवादिरन्) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः। पा–० १।३।४७। आत्मनेपदम्। भाषणं कृतवत्यः (आयुः) जीवनम् (वै) अवश्यम् (नः) अस्माकम् (प्रातीतरः) त्वं वर्धितवानसि (सर्वाः) (नः) अस्मान् (सुरभीः) सु+रभ-राभस्ये-इन्। सुगन्धयुक्ताः (अकः) कृतवानसि ॥