Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 6 / 2

ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ 2॥

Veda : Atharvaveda | Kand : 11 | Sukta : 6 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : शन्तातिः | देवता : चन्द्रमा अथवा मन्त्रोक्ताः | छन्द : अनुष्टुप् | स्वर :

विषय : कष्ट हटाने के लिये उपदेश।

पदपाठ : ब्रू॒म: । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् । अंश॑म् । विव॑स्वन्तम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२॥

पदार्थ : (वरुणम्) श्रेष्ठ (राजानम्) राजा, (मित्रम्) मित्र, (विष्णुम्) कर्मों में व्यापक विद्वान् (अथो) और (भगम्) ऐश्वर्यवान् पुरुष का (ब्रूमः) हम कथन करते हैं। (अंशम्) विभाग करनेवाले और (विवस्वन्तम्) विविध स्थान में निवास करनेवाले पुरुष का (ब्रूमः) हम कथन करते हैं, (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥२॥"

भावार्थ :

टिप्पणी :२−(राजानम्) ईशितारम् (वरुणम्) श्रेष्ठम् (मित्रम्) स्नेहिनम् (विष्णुम्) कर्मसु व्यापकं पण्डितम् (अथो) अपि च (भगम्) भगवन्तम्। ऐश्वर्यवन्तम् (अंशम्) विभाजकम् (विवस्वन्तम्) वि+वस निवासे क्विप्, मतुप् मस्य वः। विविधस्थाने निवासशीलम्। अन्यत् पूर्ववत् म० १ ॥