Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 8 / 10

ये त आस॒न्दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा। पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥ 10॥

Veda : Atharvaveda | Kand : 11 | Sukta : 8 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : कौरुपथिः | देवता : अध्यात्मम्, मन्युः | छन्द : अनुष्टुप् | स्वर :

विषय : सब जगत् के कारण परमात्मा का उपदेश।

पदपाठ : ये । ते । आस॑न् । दश॑ । जा॒ता: । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । पु॒त्रेभ्य॑: । लो॒कम् । द॒त्त्वा । कस्मि॑न् । ते । लो॒के । आ॒स॒ते॒ ॥१०.१०॥

पदार्थ : (ये ते) वे जो (दश देवाः) दस दिव्य गुण [दस इन्द्रियों के विषयग्राहक गुण] (पुरा) पूर्वकाल में [वर्तमान] (देवेभ्यः) दिव्य पदार्थों [कर्मफलों] से (जाताः) उत्पन्न हुए (आसन्) थे, (ते) वे (पुत्रेभ्यः) पुत्रों [पुत्ररूप इन्द्रियों के गोलकों] को (लोकम्) स्थान [दर्शन वा विषयग्रहण सामर्थ्य] (दत्त्वा) देकर (कस्मिन् लोके) कौन से स्थान में (आसते) बैठते हैं ॥१०॥"

भावार्थ :

टिप्पणी :१०−(ये) (ते) (आसन्) अभवन् (दश) दशसंख्याकाः (जाताः) प्रादुर्भूताः (देवाः) म० ३। ज्ञानकर्मेन्द्रियाणां विषयग्राहकगुणाः (देवेभ्यः) दिव्यपदार्थानां कर्मफलानां सकाशात् (पुरा) पूर्वकल्पे वर्तमानेभ्यः (पुत्रेभ्यः) पुत्ररूपेभ्य इन्द्रियगोलकेभ्यः (लोकम्) स्थानम्। दर्शनस्य विषयस्य वा ग्रहणसामर्थ्यम् (दत्त्वा) (कस्मिन्) (लोके) स्थाने (आसते) उपविशन्ति ॥