Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 9 / 21

उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु। शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ॥ 21॥

Veda : Atharvaveda | Kand : 11 | Sukta : 9 | Paryay : | Mantra No : 21

In Hindi:

ऋषि : काङ्कायनः | देवता : अर्बुदिः | छन्द : अनुष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्त्तव्य का उपदेश।

पदपाठ : उत् । क॒स॒न्तु॒ । हृद॑यानि । ऊ॒र्ध्व: । प्रा॒ण: । उत् । ई॒ष॒तु॒ । शौ॒ष्क॒ऽआ॒स्यम् । अनु॑ । व॒र्त॒ता॒म् । अ॒मित्रा॑न् । मा । उ॒त । मि॒त्रिण॑: ॥१९.२१॥

पदार्थ : [शत्रुओं के] (हृदयानि) हृदय (उत् कसन्तु) उकस जावें [हिल जावें], (प्राणः) प्राण [श्वास-प्रश्वास] (ऊर्ध्वः) ऊँचा होकर (उत् ईषतु) चढ़ जावे। (शौष्कास्यम्) मुख की सुखाई (अमित्रान् अनु) शत्रुओं को (वर्तताम्) व्यापे, (उत) और (मित्रिणः) [हमारे लिये] मित्र रखनेवाले जनों को (मा) न [व्यापे] ॥२१॥"

भावार्थ :

टिप्पणी :२१−(उत् कसन्तु) कस गतौ। उद्गच्छन्तु (हृदयानि) अन्तःकरणानि (ऊर्ध्वः) उच्चगतिः सन् (प्राणः) श्वासप्रश्वासव्यापारः (उदीषतु) ईष गतौ। निर्गच्छतु (शौष्कास्यम्) शुष्कास्यता। मुखस्य निर्द्रवत्वम् (अनु) प्रति (वर्तताम्) व्याप्यताम् (अमित्रान्) पीडकान् (मा) निषेधे (उत) अपि च (मित्रिणः) मित्र-इनि। अस्मभ्यं मित्राणि सन्ति येषां तान् जनान्-अनु-वर्ततामिति शेषः ॥