Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 10 / 26

म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥ 26॥

Veda : Atharvaveda | Kand : 11 | Sukta : 10 | Paryay : | Mantra No : 26

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : त्रिषन्धिः | छन्द : प्रस्तारपङ्क्तिः | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : म॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णै: । अ॒दन्तु॑ । दु॒:ऽचित॑म् । मृ॒दि॒तम् । शया॑नम् । य: । इ॒माम् । प्र॒तीची॑म् । आऽहु॑तिम् । अ॒मित्र॑: । न॒: । युयु॑त्सति ॥१२.२६॥

पदार्थ : (सुपर्णैः=सुपर्णाः) शीघ्रगामी पक्षी [गिद्ध आदि] (मर्माविधम्) मर्मस्थानों में छिदे हुए, (रोरुवतम्) चिल्लाते हुए (मृदितम्) कुचले हुए, (शयानम्) पड़े हुए, (दुश्चितम्) उस दुष्ट विचारवाले को (अदन्तु) खावें। (यः) जो (अमित्रः) शत्रु (नः) हमारी (इमाम्) इस (प्रतीचीम्) प्रत्यक्ष प्राप्त हुई (आहुतिम्) आहुति [बलि वा भेंट] (युयुत्सति) झगड़ना चाहता है ॥२६॥ "

भावार्थ :

टिप्पणी :२६−(मर्माविधम्) व्यध ताडने-कर्मणि क्विप्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। नहिवृतिवृषिव्यधि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः क्विप्रत्यये। मर्मसु विध्यमानम् (रोरुवतम्) रु शब्दे-यङ्लुकि-शतृ। रोरूयमाणम्। अत्यन्तं शब्दायमानम् (सुपर्णैः) सुपां सुपो भवन्ति। वा। पा० ७।१।३९। प्रथमास्थाने तृतीया। सुपर्णाः। शीघ्रगामिनः पक्षिणः। गृध्रादयः (अदन्तु) (दुश्चितम्) चिती संज्ञाने-क्विप्। दुष्टा चित् ज्ञानं यस्य तम्। दुष्टविचारयुक्तम् (मृदितम्) चूर्णीकृतम् (शयानम्) भूमौ वर्तमानम् (यः) (इमाम्) (प्रतीचीम्) अ० ३।२६।३। प्रति+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। प्रत्यक्षमञ्चन्तीं गच्छन्तीम् (आहुतिम्) दानक्रियाम् (अमित्रः) शत्रुः (नः) अस्माकम् (युयुत्सति) योद्धुमिच्छति ॥