Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 3

यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः। यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त्सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ॥ 3॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्रिष्टुप् | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : यस्या॑म् । स॒मु॒द्र: । उ॒त । सिन्धु॑: । आप॑: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । यस्या॑म् । इ॒दम् । जिन्व॑ति । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । पू॒र्व॒ऽपेये॑ । द॒धा॒तु॒ ॥१.३॥

पदार्थ : (यस्याम्) जिस [भूमि] पर (समुद्रः) समुद्र (उत) और (सिन्धुः) नदी और (आपः) जलधाराएँ [झरने कूप आदि] हैं, (यस्याम्) जिस पर (अन्नम्) अन्न और (कृष्टयः) खेतियाँ (संबभूवुः) उत्पन्न हुई हैं। (यस्याम्) जिस पर (इदम्) यह (प्राणत्) श्वास लेता हुआ और (एजत्) चेष्टा करता हुआ [जगत्] (जिन्वति) चलता है, (सा भूमिः) वह भूमि (नः) हमें (पूर्वपेये) श्रेष्ठों से रक्षा योग्य पद पर (दधातु) ठहरावे ॥३॥"

भावार्थ :

टिप्पणी :३−(यस्याम्) भूम्याम् (समुद्रः) जलौघः (उत) अपि च (सिन्धुः) नदी (आपः) जलधाराः (अन्नम्) भोज्यम् (कृष्टयः) सस्यभूभवः (संबभूवुः) उत्पन्ना बभूवुः (यस्याम्) (इदम्) दृश्यमानम् (जिन्वति) गच्छति−निघ० २।१४। (प्राणत्) श्वासं कुर्वत् (एजत्) चेष्टायमानं जगत् (सा) (नः) अस्मान् (भूमिः) पृथिवी (पूर्वपेये) अचो यत्। पा० ३।१।९७। पा० रक्षणे−यत्। ईद्यति। पा० ६।४।६५। आत ईत्त्वम्। पूर्वैः श्रेष्ठै रक्षितुं योग्ये पदे (दधातु) स्थापयतु ॥