Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 25

यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्या᳡यां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥ 25॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 25

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्र्यवसाना सप्तपदोष्णिगनुष्टुब्गर्भा शक्वरी | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : य: । ते॒ । ग॒न्ध: । पुरु॑षेषु । स्त्री॒षु । पु॒म्ऽसु । भग॑: । रुचि॑: । य: । अश्वे॑षु । वी॒रेषु॑ । य: । मृ॒गेषु॑ । उ॒त । ह॒स्तिषु॑ । क॒न्या᳡याम् । वर्च॑: । यत् । भू॒मे॒ । तेन॑ । अ॒स्मान् । अपि । सम् । सृ॒ज॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥२.२५॥

पदार्थ : (यः) जो (ते) तेरा (गन्धः) गन्ध [अंश] (पुरुषेषु) अग्रगामी (पुंसु) रक्षक मनुष्यों में और (स्त्रीषु) स्त्रियों में (भगः) सेवनीय ऐश्वर्य और (रुचिः) कान्ति है। (यः) जो [गन्ध] (वीरेषु) वेगवान् (अश्वेषु) घोड़ों में (उत) और (यः) जो (मृगेषु) हरिणों में और (हस्तिषु) हाथियों में है और (यत्) जो (वर्चः) तेज (कन्यायाम्) चमकती हुई कन्या [कन्या आदि राशि ज्योतिश्चक्र] में है, (भूमे) हे भूमि ! (तेन) उस [तेज] के साथ (अस्मान् अपि) हमें भी (सं सृज) मिला, (कश्चन) कोई भी [प्राणी] (मा) मुझ से (मा द्विक्षत) वैर न करे ॥२५॥"

भावार्थ :

टिप्पणी :२५−(यः) (ते) (गन्धः) (पुरुषेषु) पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ−कुषन्। अग्रगामिषु (स्त्रीषु) (पुंसु) पातेर्डुमसुन्। उ० ४।१७८। पा रक्षणे डुमसुन्। रक्षकेषु मनुष्येषु (भगः) सेवनीयमैश्वर्यम् (रुचिः) कान्तिः (यः) (अश्वेषु) तुरङ्गेषु (वीरेषु) वि+ईर गतौ−अच्। वेगवत्सु (यः) (मृगेषु) हरिणेषु (हस्तिषु) गजेषु (कन्यायाम्) अघ्न्यादयश्च। उ० ४।११२। कन प्रीतौ द्युतौ गतौ−यक्, टाप् च। कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्तिकर्मणः−निरु० ४।१५। मेषादितः षष्ठे राशौ। ज्योतिश्चक्रे (वर्चः) तेजः (यत्) (भूमे) (तेन) वर्चसा (अस्मान्) (अपि) (संसृज) संजनय। संयोजय। अन्यत् पूर्ववत्−म० २४ ॥