Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 43

यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥ 43॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 43

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : विराडास्तारपङ्क्तिः | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥

पदार्थ : (यस्याः) जिसके (पुरः) नगर [राजभवन, गढ़ आदि] (देवकृताः) विद्वानों के बनाये हैं, (यस्याः) जिसके (क्षेत्रे) खेत में [मनुष्य] (विकुर्वते) विविध कर्म करते हैं। (प्रजापतिः) प्रजापति [परमेश्वर] (विश्वगर्भाम्) सब के गर्भ (पृथिवीम्) पृथिवी को (आशामाशाम्) दिशा-दिशा में (नः) हमारे लिये (रण्याम्) रमणीय (कृणोतु) करे ॥४३॥"

भावार्थ :

टिप्पणी :४३−(यस्याः) (पुरः) नगर्य्यः। राजभवनदुर्गादयः (देवकृताः) विद्वद्भिर्निर्मिताः (क्षेत्रे) प्रदेशे (यस्याः) (विकुर्वते) विविधकर्माणि कुर्वन्ति मनुष्याः (प्रजापतिः) प्रजापालकः परमेश्वरः (पृथिवीम्) (विश्वगर्भाम्) सर्वस्य गर्भभूताम् (आशामाशाम्) प्रतिदिशम् (रण्याम्) अ० ९।३।६। रमणीयाम्−निरु० ६।३३। (नः) अस्मभ्यम् (कृणोतु) करोतु ॥