Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 54

अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्। अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥ 54॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 54

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : अनुष्टुप् | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : अ॒हम् । अ॒स्मि॒ । सह॑मान: । उत्त॑र: । नाम॑ । भूम्या॑म् । अ॒भी॒षाट् । अ॒स्मि॒ । वि॒श्वा॒षाट् । आशा॑म्ऽआशाम् । वि॒ऽस॒स॒हि: ॥१.५४॥

पदार्थ : (अहम्) मैं [मनुष्य] (सहमानः) जीतनेवाला और (भूम्याम्) भूमि पर (नाम) नाम के साथ (उत्तरः) अधिक ऊँचा (अस्मि) हूँ। मैं (अभीषाट्) विजयी, (विश्वाषाट्) सर्वविजयी और (आशामाशाम्) प्रत्येक दिशा में (विषासहिः) हरा देनेवाला (अस्मि) हूँ ॥५४॥"

भावार्थ :

टिप्पणी :५४−(अहम्) मनुष्यः (अस्मि) (सहमानः) अभिभवनशीलः (उत्तरः) उच्चतरः (नाम) नाम्ना। कीर्त्या (भूम्याम्) (अभीषाट्) छन्दसि सहः। पा० ३।२।६३। षह मर्षणे−ण्वि। अन्येषामपि दृश्यते। पा० ६।३।१३७। पूर्वपदस्य दीर्घः। सहेः साडः सः। पा० ८।३।५६। इति षत्वम्। सर्वतो जेता (अस्मि) (विश्वाषाट्) पूर्ववत् सिद्धिः। सर्वजेता (आशामाशाम्) प्रतिदिशम् (विषासहिः) अ० १।२९।६। विविधजयशीलः ॥