Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 62

उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः। दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥ 62॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 62

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : परानुष्टुप्त्रिष्टुप् | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : उ॒प॒ऽस्था: । ते॒ । अ॒न॒मी॒वा: । अ॒य॒क्ष्मा: । अ॒स्मभ्य॑म् । स॒न्तु॒ । पृ॒थि॒वि॒ । प्रऽसू॑ता: । दी॒र्घम् । न॒: । आयु॑: । प्र॒ति॒ऽबुध्य॑माना: । व॒यम् । तुभ्य॑म् । ब॒लि॒ऽहृत॑: । स्या॒म॒ ॥१.६२॥

पदार्थ : (पृथिवी) हे पृथिवी ! (ते) तेरी (उपस्थाः) गोदें (अस्मभ्यम्) हमारे लिये (अनमीवाः) नीरोग और (अयक्ष्माः) राजरोगरहित (प्रसूताः) उत्पन्न (सन्तु) होवें। (नः) अपने (आयुः) आयु [जीवन] को (दीर्घम्) दीर्घकाल तक (प्रतिबुध्यमानाः) जगाते हुए (वयम्) हम (तुभ्यम्) तेरे लिये (बलिहृतः) बलि [सेवा धर्म] देनेवाले (स्याम) रहें ॥६२॥"

भावार्थ :

टिप्पणी :६२−(उपस्थाः) क्रोडाः (ते) तव (अनमीवाः) रोगरहिताः (अयक्ष्माः) राजरोगशून्याः (अस्मभ्यम्) (सन्तु) (पृथिवि) (प्रसूताः) उत्पन्नाः (दीर्घम्) बहुकालपर्यन्तम् (नः) अस्माकम्। स्वकीयम् (आयुः) जीवनम् (प्रतिबुध्यमानाः) जागरणेन चेतयन्तः (वयम्) (तुभ्यम्) (बलिहृतः) बलेरुपायनस्य हारकाः। प्रापकाः (स्याम) भवेम ॥