Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 24

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥ 24॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 24

In Hindi:

ऋषि : भृगुः | देवता : मृत्युः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : आ । रो॒ह॒त॒ । आयु॑: । ज॒रस॑म् । वृ॒णा॒ना: । अ॒नु॒ऽपू॒र्वम् । यत॑माना: । यति॑ । स्थ । तान् । व॒: । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषा॑: । सर्व॑म् । आयु॑: । न॒य॒तु॒ । जीव॑नाय ॥२.२४॥

पदार्थ : [हे मनुष्यो !] (यति स्थ) जितने तुम हो, [वे तुम] (अनुपूर्वम्) लगातार (यतमानाः) यत्न करते हुए, (जरसम्) स्तुतियुक्त (आयुः) जीवन (वृणानाः) चाहते हुए (आ रोहत) ऊँचे चढ़ो। (सुजनिमा) सुन्दर जन्म देनेवाला (सजोषाः) समान प्रीतिवाला (त्वष्टा) कर्ता [परमेश्वर] (तान् वः) उन तुम को (सर्वम् आयुः) पूर्ण आयु (जीवनाय) उत्तम जीवन के लिये (नयतु) प्राप्त करावे ॥२४॥"

भावार्थ :

टिप्पणी :२४−(आ रोहत) अधितिष्ठत (आयुः) जीवनम् (जरसम्) अ० १।३०।३। जॄ स्तुतौ−असुन्, जरस्−अर्शआद्यच्। जरया स्तुत्या युक्तम्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। (वृणानाः) संभजमानाः (अनुपूर्वम्) यथाक्रमम् (यतमानाः) प्रयत्नं कुर्वन्तः (यति) यत्−छान्दसो डतिः। यत्संख्याकाः। यावन्तः (स्थ) भवथ (तान्) तादृशान् (वः) युष्मान् (त्वष्टा) कर्ता परमेश्वरः (सुजनिमा) जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। जन जनने प्रादुर्भावे च−इमनिन्। शोभनानि कीर्तनस्मरणादिना सुखहेतुभूतानि जनिमानि जन्मानि यस्मात् तादृशः (सजोषाः) समानप्रीतिः (सर्वम्) सम्पूर्णम् (आयुः) जीवनम् (नयतु) प्रापयतु (जीवनाय) उत्तमजीवनप्राप्तये ॥