Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 27

उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥ 27॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 27

In Hindi:

ऋषि : भृगुः | देवता : मृत्युः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥

पदार्थ : (सखायः) हे मित्रो ! (उत् तिष्ठत) उठो, और (प्र तरत) उतर चलो, (इयम्) यह (अश्मन्वती) [बहुत पत्थरोंवाली] [दुस्तर] (नदी) नदी (स्यन्दते) बहती है। (ये) जो [पदार्थ] (अत्र) यहाँ [इस जगह वा समय] (अशिवाः) अमङ्गलकारी (असन्) होवें, [उन्हें] (जहीत) छोड़ो, (शिवान्) मङ्गलकारी और (स्योनान्) आनन्दकारी (वाजान् अभि) अन्न आदि भोगों की ओर (उत्तरेम) हम उतरें ॥२७॥"

भावार्थ :

टिप्पणी :२७−(उत् तिष्ठत) उत्थिता भवत (उत्तरत) पारयत (सखायः) हे सुहृदः (अश्मन्वती) बहुपाषाणवती। दुस्तरा (नदी) (स्यन्दते) स्रवति (इयम्) (अत्र) अस्मिन् स्थाने समये वा (जहीत) त्यजत (ये) पदार्थाः (असन्) भवन्तु (अशिवाः) अमङ्गलाः (शिवान्) मङ्गलकरान् (स्योनान्) सुखप्रदान् (उत्तरेम) पारयेम (अभि) अभिलक्ष्य (वाजान्) अन्नादिभोगान् ॥