Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 27

उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शुच॑यश्चा॒मृता॑सः। ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा॒ आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ॥ 27॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 27

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : उ॒त्ऽइ॑व । प्र॒ऽभ्वी: । उ॒त । सम्ऽमि॑तास: । उ॒त । शु॒क्रा: । शुच॑य: । च॒ । अ॒मृता॑स: । ता: । ओ॒द॒नम् । दंप॑तिऽभ्याम् । प्रऽशि॑ष्टा: । आ॒प॒: । शिक्ष॑न्ती: । प॒च॒त॒ । सु॒ऽना॒था॒: ॥३.२७॥

पदार्थ : (उत इव) और जैसी (प्रभ्वीः) प्रबल (उत) और (संमितासः) सन्मान की गयी, (च) और (शुक्राः) वीर्यवाली, (शुचयः) शुद्ध आचरणवाली, (च) और (अमृतासः) अमर [सदा पुरुषार्थयुक्त], (प्रशिष्टाः) बड़ी शिष्ट [वेदवाक्य में विश्वास करनेवाली वा सुबोध], (शिक्षन्तीः) उपकार करती हुई (ताः) वे तुम सब, (आपः) हे आप्त प्रजाओ ! (सुनाथाः) हे बड़ी ऐश्वर्यवालियो ! (दम्पतिभ्याम्) दोनों पति-पत्नी के लिये (ओदनम्) सुख बरसानेवाले [परमेश्वर] को (पचत) परिपक्व करो, [हृदय में दृढ़ करो] ॥२७॥"

भावार्थ :

टिप्पणी :२७−(उत) अपि (इव) यथा (प्रभ्वीः) प्रभ्व्यः। समर्थाः (उत) (संमितासः) असुगागमः। संमानिताः (उत) (शुक्राः) वीर्यवत्यः (शुचयः) शुद्धाचरणाः (च) (अमृतासः) मरणरहिताः। पुरुषार्थयुक्ताः (ताः) तथाविधाः (ओदनम्) सुखवर्षकं परमात्मानम् (दम्पतिभ्याम्) जायापतिभ्याम् (प्रशिष्टाः) शासु अनुशिष्टौ−क्त। प्रकर्षेण शिष्टाः। वेदवाक्ये विश्वासकारिण्यः। सुबोधाः (आपः) हे आप्ताः प्रजाः (शिक्षन्तीः) अ० ६।११४।२। शक्लृ शक्तौ−सन्। शतृ, ङीप्। शक्तुमुपकर्तुमिच्छन्त्यः (पचत) पक्वं दृढं कुरुत (सुनाथाः) नाथ ऐश्वर्ये−अच्, टाप्। हे बह्वैश्वर्यवत्यः ॥