Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 30

उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥ 30॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 30

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : उत् । स्था॒प॒य॒ । सीद॑त: । बु॒ध्ने । ए॒ना॒न् । अ॒त्ऽभि: । आ॒त्मान॑म् । अ॒भि । सम् ।स्पृ॒श॒न्ता॒म् । अमा॑सि । पात्रै॑: । उ॒द॒कम् । यत् । ए॒तत् । मि॒ता: । त॒ण्डु॒ला: । प्र॒ऽदिश॑: । यदि॑ । इ॒मा: ॥३.३०॥

पदार्थ : [हे वीर !] (बुध्ने) तले पर (सीदतः) बैठे हुए (एनान्) इन [चावलों] को (उत् स्थापय) ऊँचा उठा, वे [चावल] (अद्भिः) जल के साथ (आत्मानम्) अपने को (अभि) सब प्रकार (सं स्पृशन्ताम्) मिला देवें। (पात्रैः) पात्रों [चमचे आदि] से, (यत्) जो कुछ (एतत्) यह (उदकम्) जल है, [उसे] (अमासि) मैंने नाप लिया है, (यदि) यदि (तण्डुलाः) चावल (इमाः प्रदिशः) इन दिशाओं में [बटलोही के भीतर] (मिताः) नापे गये हैं ॥३०॥"

भावार्थ :

टिप्पणी :३०−(उत्थापय) ऊर्ध्वं धारय (सीदतः) उपविशतः (बुध्ने) मूले (एनान्) तण्डुलान् (अद्भिः) जलैः (आत्मानम्) (अभि) सर्वतः (संस्पृशन्ताम्) संयोजयन्तु (अमासि) माङ् माने−लुङ्। अहं परिमितवानस्मि (पात्रैः) चमसादिभिः (उदकम्) जलम् (यत्) (एतत्) (मिताः) परिमिताः (तण्डुलाः) (प्रदिशः) प्रकृष्टा दिशाः, प्रतीति शेषः (यदि) (इमाः) उखायां वर्तमानाः ॥