Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 40

याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुः। सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ॥ 40॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 40

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : याव॑न्त: । अ॒स्या: । पृ॒थि॒वीम् । सच॑न्ते । अ॒स्मत् । पु॒त्रा: । परि॑ । ये । स॒म्ऽब॒भू॒वु: । सर्वा॒न् । तान् । उप॑ । पात्रे॑ । ह्व॒ये॒था॒म् । नाभि॑म् । जा॒ना॒ना: । शिश॑व: । स॒म्ऽआया॑न् ॥३.४०॥

पदार्थ : (अस्याः) इस [पत्नी] के (यावन्तः) जितने (पुत्राः) पुत्र (पृथिवीम्) पृथिवी को (सचन्ते) सेवते हैं, और (ये) जो [पुत्र] (अस्मत् परि) हम से पृथक् (संबभुवुः) उत्पन्न हुए हैं। (तान् सर्वान्) उन सब को (पात्रे) रक्षणीय व्यवहार में (उप ह्वयेथाम्) तुम दोनों निकट बुलाओ, (नाभिम्) बन्धुधर्म (जानानाः) जानते हुए (शिशवः) वे बालक (समायान्) मिलकर चलें ॥४०॥"

भावार्थ :

टिप्पणी :४०−(यावन्तः) (अस्याः) जायायाः (पृथिवीम्) (सचन्ते) सेवन्ते (अस्मत्) अस्माकं सकाशात् (पुत्राः) (परि) पृथग् भूय (संबभूवुः) उत्पन्ना बभूवुः (सर्वान्) (तान्) (उप) समीपम् (पात्रे) रक्षणीये व्यवहारे (ह्वयेथाम्) आह्वयतं युवाम् (नाभिम्) बन्धुत्वम् (जानानाः) ज्ञा अवबोधने−चानश्। जानन्तः (शिशवः) बालकाः (समायान्) सम्+आङ्+या गतौ−लेट्। समागच्छन्ताम् ॥