Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 1 / 23

इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑। तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥ 23॥

Veda : Atharvaveda | Kand : 13 | Sukta : 1 | Paryay : | Mantra No : 23

In Hindi:

ऋषि : ब्रह्मा | देवता : अध्यात्मम्, रोहितः, आदित्यः | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा का उपदेश।

पदपाठ : इ॒दम् । सद॑: । रोहि॑णी । रोहि॑तस्य । अ॒सौ । पन्था॑: । पृष॑ती । येन॑ । याति॑ । ताम् । ग॒न्ध॒र्वा: । क॒श्यपा॑: । उत् । न॒य॒न्ति॒ । क॒वय॑: । अप्र॑ऽमादम् ॥१.२३॥

पदार्थ : (रोहिणी) उत्पत्तिशक्ति [प्रकृति] (इदम्) यहाँ (रोहितस्य) उत्पन्न करनेवाले [परमेश्वर] का (सदः) प्राप्तियोग्य पद है, (असौ) वही (पन्थाः) मार्ग है, (येन) जिस से (पृषती) सींचनेवाली [प्रकृति] (याति) चलती है। (ताम्) उस [प्रकृति] को (गन्धर्वाः) पृथिवी वा जल धारण करनेवाले [मेघ] और (कश्यपाः) रस पीनेवाले [किरण] (उत् नयन्ति) ऊँचा करते हैं, (ताम्) उस [प्रकृति] को (कवयः) बुद्धिमान् लोग (अप्रमादम्) विना चूके (रक्षन्ति) पालते हैं ॥२३॥"

भावार्थ :

टिप्पणी :२३-उत्पत्तिशक्तिः (रोहितस्य) म० १। सर्वोत्पादकस्य परमेश्वरस्य (असौ) (पन्थाः) मार्गः (पृषती) म० २१। सेचनशीला प्रकृतिः (येन) पथा (याति) गच्छति (ताम्) प्रकृतिम् (गन्धर्वाः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। गो+धृञ् धारणे-व प्रत्ययः, गोर्गमादेशः। गोः पृथिव्या जलस्य वा धारकाः। मेघाः (कश्यपाः) अ० १।१४।४। कश शब्दे-करणे यत्। कशति अनेनेति कश्यं रसः। कश्य+पा पाने-क। रसस्य पानशीलाः किरणाः (उन्नयन्ति) उन्नतां व्याख्यातां कुर्वन्ति (ताम्) (रक्षन्ति) (कवयः) मेधाविनः (अप्रमादम्) सावधानं यथा तथा ॥