Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 2 / 1

उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते। आ॑दि॒त्यस्य॑ नृ॒चक्ष॑सो॒ महि॑व्रतस्य मी॒ढुषः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 13 | Sukta : 2 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : अनुष्टुप् | स्वर :

विषय : परमात्मा और जीवात्मा के विषय का उपदेश।

पदपाठ : उत् । अ॒स्य॒ । के॒तव॑: । दि॒वि । शु॒क्रा: । भ्राज॑न्त: । ई॒र॒ते॒ । आ॒दि॒त्यस्य॑ । नृ॒ऽचक्ष॑स: । महि॑ऽव्रतस्य । मी॒ढुष॑: ॥2..१॥

पदार्थ : (अस्य) इस (नृचक्षसः) मनुष्यों के देखनेवाले (महिव्रतस्य) बड़े नियमवाले, (मीढुषः) सुख बरसानेवाले (आदित्यस्य) अविनाशी परमात्मा के (शुक्राः) पवित्र (भ्राजन्तः) चमकते हुए (केतवः) विज्ञान (दिवि) प्रत्येक व्यवहार में (उत् ईरते) उदय होते हैं ॥१॥"

भावार्थ :

टिप्पणी :१−(उदीरते) उद्यन्ति (अस्य) प्रत्यक्षस्य (केतवः) विज्ञानानि। केतुः प्रज्ञानाम-निघ० ३।९। (दिवि) प्रत्येकव्यवहारे (शुक्राः) शुचयः। पवित्राः (भ्राजन्तः) प्रकाशमानाः (आदित्यस्य) अविनाशिनः परमेश्वरस्य (महिव्रतस्य) महिनियमयुक्तस्य (मीढुषः) दाश्वान् साह्वान् मीढ्वांश्च। पा० ६।१।१२। मिह सेचने-क्वसु, निपात्यते। सुखवर्षकस्य ॥