Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 2 / 44

पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव। विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥ 44॥

Veda : Atharvaveda | Kand : 13 | Sukta : 2 | Paryay : | Mantra No : 44

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुष्पदा पुरःशाक्वरा भुरिग्जगती | स्वर :

विषय : परमात्मा और जीवात्मा के विषय का उपदेश।

पदपाठ : पृ॒थि॒वी॒ऽप्र: । म॒हि॒ष: । नाध॑मानस्य । गा॒तु: । अद॑ब्धऽचक्षु: । परि॑ । विश्व॑म् । ब॒भूव॑ । विश्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्र॑: । यज॑त्र: । इ॒दम् । शृ॒णो॒तु॒ । यत् । अ॒हम् । ब्रवी॑मि ॥२.४४॥

पदार्थ : (पृथिवीप्रः) पृथिवी का भरपूर करनेवाला, (महिषः) महान्, (नाधमानस्य) प्रार्थना करते हुए पुरुष के (गातुः) मार्ग, (अदब्धचक्षुः) बे-चूक दृष्टिवाले [परमेश्वर] ने (विश्वम्) सबको (परिबभूव) घेर लिया है। (विश्वम्) सबको (संपश्यन्) निहारता हुआ, (सुविदत्रः) बड़ा लाभ पहुँचानेवाला (यजत्रः) सर्वपूजनीय [परमेश्वर] (इदम्) इस [वचन] को (शृणोतु) सुने, (यत्) जो (अहम्) मैं (ब्रवीमि) कहता हूँ ॥४४॥"

भावार्थ :

टिप्पणी :४४−(पृथिवीप्रः) भूमिपूरकः (महिषः) महान् (नाधमानस्य) प्रार्थयमानस्य (गातुः) मार्गः (अदब्धचक्षुः) अहिंसितदृष्टिः। सर्वदर्शी (विश्वम्) सर्वम् (परिबभूव) आच्छादितवान् (विश्वम्) (सम्पश्यन्) सर्वथावलोकयन् (सुविदत्रः) सुविदेः कत्रन्। उ० ३।१०८। सु+विद्लृ लाभे-कत्रन्। महालाभप्रापकः (यजत्रः) अमिनक्षियजि०। उ० ३।१०५। यजतेः-अत्रन्। सर्वपूजनीयः (इदम्) (शृणोतु) आकर्णयतु (यत्) (अहम्) (ब्रवीमि) कथयामि ॥