Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 3 / 13

स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्। स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पाशान् ॥ 13॥

Veda : Atharvaveda | Kand : 13 | Sukta : 3 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुरवसानाष्टपदा कृतिः | स्वर :

विषय : परमात्मा और जीवात्मा का उपदेश।

पदपाठ : स: । वरु॑ण: । सा॒यम् । अ॒ग्नि: । भ॒व॒ति॒ । स: । म‍ि॒त्र: । भ॒व॒ति॒ । प्रा॒त: । उ॒त्ऽयन् । स: । स॒वि॒ता । भू॒त्वा । अ॒न्तरि॑क्षेण । या॒ति॒ । य: । इन्द्र॑: । भू॒त्वा । त॒प॒ति॒ । म॒ध्य॒त: । दिव॑म् । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१३॥

पदार्थ : (सः) वह (वरुणः) श्रेष्ठ परमात्मा (सायम्) सायङ्काल में (अग्निः) अग्नि [अग्निसमान तेजस्वी] (भवति) होता है, (सः) वह [परमेश्वर] (प्रातः) प्रातःकाल (उद्यन्) उदय होते हुए (मित्रः) स्नेहवान् सूर्य [के समान] (भवति) होता है। (सः) वह [परमेश्वर] (सविता) प्रेरणा करनेवाला सूर्य के समान (भूत्वा) होकर (अन्तरिक्षेण) अन्तरिक्ष के साथ (याति) चलता है, (सः) वह (इन्द्रः) परम ऐश्वर्यवान् (भूत्वा) होकर (मध्यतः) बीच से (दिवम्) सूर्यलोक को (तपति) तपाता है (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१३॥"

भावार्थ :

टिप्पणी :१३−(सः) (वरुणः) श्रेष्ठः परमेश्वरः (सायम्) सूर्यास्ते (अग्निः) अग्नितुल्यः (भवति) (सः) परमेश्वरः (मित्रः) स्नेहवान् सूर्यो यथा (भवति) (प्रातः) प्रभाते (उद्यन्) उद्गच्छन् (सः) (सविता) प्राणिनां प्रेरकः सूर्यो यथा (भूत्वा) (अन्तरिक्षेण) आकाशेन सह (याति) गच्छति (सः) (इन्द्रः) परमैश्वर्यवान्। जगदीश्वरः (भूत्वा) (तपति) तापयति (मध्यतः) मध्यात् (दिवम्) सूर्यलोकम् ॥