Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 3 / 15

अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑। य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥ 15॥

Veda : Atharvaveda | Kand : 13 | Sukta : 3 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुरवसाना सप्तपदा निचृदतिधृतिः | स्वर :

विषय : परमात्मा और जीवात्मा का उपदेश।

पदपाठ : अ॒यम् । स: । दे॒व: । अ॒प्ऽसु । अ॒न्त: । स॒हस्र॑ऽमूल: । पु॒रु॒ऽशाक॑: । अत्त्रि॑: । य: । इ॒दम् । विश्व॑म् । भुव॑नम् । ज॒जान॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् । ॥३.१५॥

पदार्थ : (अयम्) यह (सः) वही (देवः) प्रकाशमान, (सहस्रमूलः) सहस्रों [अनगणित] कारणों में रहनेवाला, (पुरुशाकः) बहुत शक्तियोंवाला (अत्त्रिः) नित्यज्ञानी [परमेश्वर] (अप्सु) प्रजाओं में (अन्तः) भीतर है। (यः) जिस ने (इदम्) इस (विश्वम्) सब (भुवनस्य) सत्ता को (जजान) उत्पन्न किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१५॥"

भावार्थ :

टिप्पणी :१५−(अयम्) प्रत्यक्षः (सः) (देवः) प्रकाशमानः (अप्सु) प्रजासु (अन्तः) मध्ये (सहस्रमूलः) सहस्रेष्वसंख्यातेषु मूलेषु कारणेषु विद्यमानः (पुरुशाकः) शक्लृ शक्तौ-घञ्। बहुशक्तियुक्तः (अत्त्रिः) अ० १३।२।४। नित्यज्ञानी परमेश्वरः (यः) परमेश्वरः (इदम्) दृश्यमानम् (विश्वम्) सर्वम् (भुवनम्) सत्ताम् (जजान) उत्पादयामास ॥