Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 3 / 20

स॒म्यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥ 20॥

Veda : Atharvaveda | Kand : 13 | Sukta : 3 | Paryay : | Mantra No : 20

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुरवसानाष्टपदाकृतिः | स्वर :

विषय : परमात्मा और जीवात्मा का उपदेश।

पदपाठ : स॒म्यञ्च॑म् । तन्तु॑म् । प्र॒ऽदिश॑: । अनु॑ । सर्वा॑: । अ॒न्त: । गा॒य॒त्र्याम् । अ॒मृत॑स्य । गर्भे॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२०॥

पदार्थ : (सम्यञ्चम्) आपस में मिले हुए (तन्तुम् अनु) ताँतों के साथ (सर्वाः) सब (प्रदिशः) दिशाएँ (अमृतस्य) अमर [परमात्मा] के (गर्भे) गर्भ में [वर्तमान] (गायत्र्याम् अन्तः) गाने योग्य वेदवाणी के भीतर [हैं]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥२०॥"

भावार्थ :

टिप्पणी :२०−(सम्यञ्चम्) संगतम् (तन्तुम्) विस्तारम् (प्रदिशः) प्रकृष्टा दिशाः (सर्वाः) (अन्तः) मध्ये (गायत्र्याम्) अमिनक्षियजि०। ३।१०५। गै गाने-अत्रन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। गायत्री गायतेः स्तुतिकर्मणः-निरु–० ७।—१२। गानयोग्यायां स्तुत्यायां वेदवाचि (अमृतस्य) अविनाशिनः परमेश्वरस्य (गर्भे) अधिकरणे ॥