Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 15 / 17 / 9

तस्य॒व्रात्य॑स्य। यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां᳡ चै॒व तत्पौ॑र्णमा॒सीं च॑॥9॥

Veda : Atharvaveda | Kand : 15 | Sukta : 17 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : अथर्वा | देवता : अध्यात्म अथवा व्रात्य | छन्द : द्विपदा साम्नी त्रिष्टुप् | स्वर :

विषय : व्रात्य के सामर्थ्य का उपदेश।

पदपाठ : तस्य॑ । व्रात्य॑स्य । यत् । आ॒दि॒त्यम् । अ॒भि॒ऽसं॒वि॒शन्ति॑ । अ॒मा॒ऽवा॒स्या᳡म् । च॒ । ए॒व । तत् । पौ॒र्ण॒ऽमा॒सीम् । च॒॥१७.९॥

पदार्थ : (तस्य) उस (व्रात्यस्य) व्रात्य [सत्यव्रतधारी अतिथि] के−(आदित्यम्) प्रकाशमान गुण में (यत्) जब (अभिसंविशन्ति) वे [विद्वान्-मन्त्र ८] सब ओर से यथावत् प्रवेश करतेहैं, (तत् एव) तब ही (अमावास्याम्) साथ-साथ बसने की क्रिया में (च च) और (पौर्णमासीम्) पूरे नापने [निश्चय करने] की क्रिया में [वे प्रवेश करते हैं] ॥९॥"

भावार्थ :

टिप्पणी :९−(यत्) यदा (आदित्यम्) अघ्न्यादयश्च। उ० ४।११२।आङ्+दीपी दीप्तौ-यक्। पृषोदरादिरूपम्। आदीप्यमानं गुणम् (अभिसंविशन्ति) अभितःसर्वतः सम्यक् प्रविशन्ति। प्राप्नुवन्ति ते देवाः-म० ८ (अमावास्याम्) अ०७।७९।१। अमावस्यदन्यतरस्याम्। पा० ३।१।१२२। अमा+वस निवासे-ण्यत्, टाप्। अमा सहनिवसन्ति प्राणिनो यस्यां क्रियायां ताम् (च) (एव) (तत्) तदा (पौर्णमासीम्) अ०७।८०।१। पूर्ण+मसी परिणामे परिमाणे च-घञ्। पूर्णमासादण्। वा० पा० ४।२।३५।पूर्णमास-अण्। पूर्णो मासः परिमाणं परीक्षणं यस्यां क्रियायां ताम् (च) ॥