Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 1 / 2

न ते॒ सखा॑स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति। म॒हस्पु॒त्रासो॒ असु॑रस्यवी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥2॥

Veda : Atharvaveda | Kand : 18 | Sukta : 1 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।

पदपाठ : न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । य॒त् । विषु॑ऽरूपा । भवा॑ति । म॒ह: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: । दि॒व: । ध॒र्तार॑: । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥१.२॥

पदार्थ : (सखा) [यह] प्रेमी (ते) तेरी (एतत्) यह (सख्यम्) प्रीति (न) नहीं (वष्टि) चाहता है−(यत्) कि (सलक्ष्मा) समान [धार्मिक] लक्षणवाली [आप] (विषुरूपा) नाना स्वभाववाली [चञ्चलअधार्मिक] (भवाति) हो जावें। (महः) महान् (असुरस्य) बुद्धिमान् पुरुष के (दिवः)व्यवहार के (धर्तारः) धारण करनेवाले, (वीराः) वीर (पुत्रासः) पुत्र (उर्विया)भूमि पर (परि ख्यन्) विख्यात हुए हैं ॥२॥"

भावार्थ :

टिप्पणी :२−(न) निषेधे (ते) तव (सखा)प्रियः (सख्यम्) प्रीतिम् (वष्टि) कामयते (एतत्) (सलक्ष्मा) समानलक्षणा।धर्मशीला (यत्) यतः (विषुरूपा) नानास्वभावा। चञ्चला। अधार्मिका (भवाति) भवेत् (महः) महतः (पुत्रासः) पुत्राः (असुरस्य) असुः प्रज्ञानाम-निघ० ३।९, रोमत्वर्थीयः। प्रज्ञावतः पुरुषस्य (वीराः) विक्रान्ताः (दिवः) व्यवहारस्य (धर्तारः) धारकाः (उर्विया) इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९।उर्वी-डियाच्। उर्व्यां भूमौ (परि ख्यन्) ख्या प्रकथने, प्रसिद्धौ-लुङ्, अडभावः।विख्याता अभूवन् ॥