Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 1 / 6

को अ॒द्ययु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून्।आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥6॥

Veda : Atharvaveda | Kand : 18 | Sukta : 1 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।

पदपाठ : क: । अ॒द्य । युङ्क्ते॒ । धु॒रि । गा: । ऋ॒तस्य॑ । शिमी॑ऽवत: । भा॒मिन॑: । दु॒:ऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् । हृ॒त्सु॒ऽअस॑: । म॒य॒:ऽभून् । य: । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । स: । जी॒वा॒त् ॥१.६॥

पदार्थ : (कः) कर्ता [प्रजापति]परमेश्वर (अद्य) आज (ऋतस्य) सत्य के (गाः) गानेवाले, (शिमीवतः) उत्तम कर्मवाले, (भामिनः) तेजस्वी (दुर्हृणायून्) [शत्रुओं पर] भारी क्रोधवाले, (आसन्निषून्) ठीकस्थान पर बाण पहुँचानेवाले, (हृत्स्वसः) [शत्रुओं के] हृदयों में शस्त्र मारनेवालेऔर (मयोभून्) [धर्मात्माओं को] सुख देनेवाले वीरों को (धुरि) धुरी [भारी बोझ]में (युङ्क्ते) जोड़ता है, (यः) जो पुरुष (एषाम्) इन [वीरों] की (भृत्याम्) पोषणरीति को (ऋणधत्) बढ़ावेगा, (सः) वह (जीवात्) जीवेगा ॥६॥"

भावार्थ :

टिप्पणी :६−(कः)करोतेर्डप्रत्ययः। कर्ता। प्रजापतिः परमेश्वरः (अद्य) अस्मिन् दिने (युङ्क्ते)योजयति (धुरि) भारे (गाः) गौः स्तोतृनाम-निघ० ३।१६। गायकान् (शिमीवतः) शिमीकर्मनाम-निघ० २।१। उत्तमकर्मयुक्तान् (भामिनः) भाम-इनि। तेजस्विनः (दुर्हृणायून्) हृणीयतेः क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायांच-उण्, कण्ड्वादित्वाद् यक्, अतो लोपे सति ईकारस्य आकारः। शत्रुषुमहाक्रोधयुक्तान् (आसन्निषून्) पद्दन्नोमास्०। पा० ६।१।६३। आसनशब्दस्य आसन्आदेशः। आसने लक्ष्ये प्राप्तबाणान् (हृत्स्वसः) अस्यतेः-क्विप्। शत्रुहृदयेषुप्रक्षिप्तशस्त्रान् (मयोभून्) सुखं भावुकान् वीरान् (यः) पुरुषः (एषाम्)वीराणाम् (भृत्याम्) पोषणरीतिम् (ऋणधत्) ऋधु वृद्धौ-लेटि अडागमः। वर्धयेत् (सः) (जीवात्) लेटि आडागमः। चिरं जीवेत्। यशस्वी भवेत् ॥