Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 2 / 27

अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥27॥

Veda : Atharvaveda | Kand : 18 | Sukta : 2 | Paryay : | Mantra No : 27

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।

पदपाठ : अप॑ । इ॒मम् । जी॒वा: । अ॒रु॒ध॒न् । गृ॒हेभ्य॑: । तम् । नि: । व॒ह॒त॒ । परि॑ । ग्रामा॑त् । इ॒त: । मृ॒त्यु: । य॒मस्य॑ । आ॒सी॒त् । दू॒त: । प्रऽचे॑ता: । असू॑न् । पि॒तृऽभ्य॑: । ग॒म॒याम् । च॒का॒र॒ ॥२.२७॥

पदार्थ : (इमम्) इस [ब्रह्मचारी] को (जीवाः) प्राणधारी [आचार्य आदि] लोगों ने (गृहेभ्यः) घरों केहित के लिये (अप) आनन्द से (अरुधन्) रोका था, (तम्) उस [ब्रह्मचारी] को (इतः) इस (ग्रामात्) ग्राम [विद्यालय] से (परि) सब ओर को (निः) निश्चय करके (वहत) तुम लेजाओ। (मृत्युः) मृत्यु [आत्मत्याग] (यमस्य) संयमी पुरुष का (दूतः) उत्तेजक, (प्रचेतः) ज्ञान करनेवाला (आसीत्) हुआ है, उसने (पितृभ्यः) पितरों [रक्षकमहात्माओं] को (असून्) प्राण (गमयाम् चकार) भेजे हैं ॥२७॥"

भावार्थ :

टिप्पणी :२७−(अप) आनन्दे (इमम्) ब्रह्मचारिणम् (जीवाः)प्राणधारकाः। महात्मानः (अरुधन्) अवरोधेन धारितवन्तः (गृहेभ्यः) गृहाणां हिताय (तम्) ब्रह्मचारिणम् (निः) निश्चयेन (वहत) नयत (परि) परितः (ग्रामात्) समूहात्।विद्यालयमध्यात् (इतः) अस्मात् (मृत्युः) प्राणत्यागः। आत्मत्यागः (यमस्य)संयमिनः पुरुषस्य (आसीत्) अभवत् (दूतः) उत्तापकः। उत्तेजकः (प्रचेताः)प्रकृष्टानि चेतांसि यस्य सः। प्रचेतयिता। प्रज्ञापयिता (असून्) प्राणान् (पितृभ्यः) पालकमहात्मभ्यः (गमयांचकार) प्रेषयामास ॥