Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 3 / 3

अप॑श्यं युव॒तिंनी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम्। अ॒न्धेन॒ यत्तम॑सा॒प्रावृ॒तासी॑त्प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम् ॥3॥

Veda : Atharvaveda | Kand : 18 | Sukta : 3 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : नियोगविधान का उपदेश।

पदपाठ : अप॑श्यम् । यु॒व॒तिम् । नी॒यमा॑नाम् । जी॒वाम् । मृ॒तेभ्य॑: । प॒रि॒ऽनी॒यमा॑नाम् । अ॒न्धेन॑ । यत् । तम॑सा । प्रावृ॑ता । आसी॑त् । प्रा॒क्त: । अपा॑चीम् । अ॒न॒य॒म् । तत् । ए॒ना॒म् ॥३.३॥

पदार्थ : (जीवाम्) जीवती हुई [पुरुषार्थयुक्त] (युवतिम्) युवा स्त्री (नीयमानाम्) ले जायी गयी और (मृतेभ्यः)मरे हुओं से [मृतक वा महारोगियों से] (परिणीयमानाम्) पृथक् ले जायी गयी (अपश्यम्) मैंने देखी है। (यत्) क्योंकि वह (अन्धेन तमसा) गहरे अन्धकार से [सन्तान न होने के शोक से] (प्रावृता) ढकी हुई (आसीत्) थी, (तत्) इसी से (एनाम्) उस (अपाचीम्) अलग पड़ी हुई स्त्री को (प्राक्तः) सामने (अनयम्) मैंलाया हूँ ॥३॥"

भावार्थ :

टिप्पणी :३−(अपश्यम्) अहं दृष्टवानस्मि (युवतिम्) यौवनवतीं स्त्रियम् (नीयमानाम्)प्राप्यमाणाम् (जीवाम्) जीवन्तीम् प्राणवतीम् (मृतेभ्यः) गतप्राणपुरुषेभ्यःसकाशात् (परिणीयमानाम्) पृथक् प्राप्यमाणाम् (अन्धेन) गाढेन (यत्) यस्मात्कारणात् (तमसा) अन्धकारेण सन्तानाभावशोकेन (प्रावृता) अतिशयेन वेष्टिता (आसीत्) (प्राक्तः) आभिमुख्येन (अपाचीम्) अपीच्यमपचितमपगतमपिहितमन्तर्हितं वा-निरु०४।२५। अपगताम्। पृथग् गताम् (अनयम्) आनीतवानस्मि (तत्) तस्मात्कारणात् (एनाम्)युवतिम् ॥