Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 3 / 5

उप॒ द्यामुप॑वेत॒समव॑त्तरो न॒दीना॑म्। अग्ने॑ पि॒त्तम॒पाम॑सि ॥5॥

Veda : Atharvaveda | Kand : 18 | Sukta : 3 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अथर्वा | देवता : अग्नि | छन्द : त्रिपदा निचृत गायत्री | स्वर :

विषय : उन्नति करने का उपदेश।

पदपाठ : उप॑ । द्याम् । उप॑ । वे॒त॒सम् । अव॑त्ऽतर: । न॒दीना॑म् । अग्ने॑ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥३.४॥

पदार्थ : (अग्ने) हे विद्वान्पुरुष ! (द्याम्) विद्याप्रकाश को (उप) पाकर और (नदीनाम्) स्तुतियों के (वेतसम्) विस्तार को (उप) आदर से (अवत्तरः) अधिक रक्षा करता हुआ तू (अपाम्)प्राणों का (पित्तम्) तेज (असि) है ॥५॥"

भावार्थ :

टिप्पणी :५−(उप) उपेत्य। प्राप्य (द्याम्)विद्याप्रकाशम् (उप) पूजायाम् (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ्तन्तुसन्ताने-असच् तुट् च। विस्तारम् (अवत्तरः) अव रक्षणे-शतृ, तरप्। अतिशयेनअवन् रक्षन् (नदीनाम्) णद अव्यक्ते शब्दे भाषायां स्तुतौ च-अच्, ङीप्।नदतिरर्चतिकर्मा-निघ० ३।१४। ऋषिर्नदो भवति नदतेः स्तुतिकर्मणः-निरु० ५।२।स्तुतीनाम् (अग्ने) हे विद्वन् पुरुष (पित्तम्) अपि+देङ् पालने-क्त। अचउपसर्गात्तः। पा० ७।४।४७। इति तादेशः। अपिदीयते रक्ष्यते शरीरं येन तत्। तेजः (अपाम्) प्राणानाम् (असि) ॥