Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 3 / 18

अ॒ञ्जते॒व्य᳡ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य᳡ञ्जते। सिन्धो॑रुच्छ्वा॒सेप॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृह्णते ॥18॥

Veda : Atharvaveda | Kand : 18 | Sukta : 3 | Paryay : | Mantra No : 18

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : जगती | स्वर :

विषय : पितरों के कर्तव्य का उपदेश।

पदपाठ : अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ । सिन्धो॑: । उ॒त्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वा: । प॒शुम् । आ॒सु॒ । गृ॒ह्ण॒ते॒ ॥३.१८॥

पदार्थ : (हिरण्यपावाः) तेज [वासुवर्ण आदि धन] के रक्षक लोग (क्रतुम्) कर्म [वा बुद्धि] को (मधुना) विज्ञान केसाथ (अञ्जते) शुद्ध करते हैं, (वि अञ्जते) विख्यात करते हैं, (सम्) मिलकर (अञ्जते) प्राप्त करते हैं, (अभि अञ्जते) सब ओर फैलाते हैं और (रिहन्ति) सराहतेहैं। (सिन्धोः) समुद्र के (उच्छ्वासे) बढ़ाव में (पतयन्तम्) जाते हुए (उक्षणम्)वृद्धि करनेवाले (पशुम्) दृष्टिवाले प्राणी को (आसु) इन [प्रजाओं] के बीच (गृह्णते) गहते हैं [सहारा देते हैं] ॥१८॥"

भावार्थ :

टिप्पणी :१८−(अञ्जते) अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु। शोधयन्ति (व्यञ्जते) विख्यातं कुर्वन्ति (सम्)संगत्य (अञ्जते) गच्छन्ति। प्राप्नुवन्ति (क्रतुम्) कर्म-निघ० २।१।प्रज्ञाम्-निघ० ३।९ (रिहन्ति) अर्चन्ति-निघ० ३।१४। स्तुवन्ति (मधुना) विज्ञानेन (अभि) सर्वतः (अञ्जते) विस्तारयन्ति। प्रकटयन्ति (उच्छ्वासे) उद्गमे (पतयन्तम्)पत गतौ चुरादिरदन्तः-शतृ। गच्छन्तम् (उक्षणम्) उक्ष वृद्धौ-कनिन्। उक्षणउक्षतेर्वृद्धिकर्मणः-निरु० १२।९। वृद्धिकर्तारम् (हिरण्यपावाः) कॄगॄशॄदॄभ्यो वः।उ० १।१५५। हिरण्य+पा रक्षणे-व प्रत्ययः। हिरण्यस्य तेजसः सुवर्णादिधनस्य वारक्षकाः (पशुम्) अर्जिदृशिकम्यमि०। उ० १।२७। दृशिर् प्रेक्षणे-कु। पशुःपश्यतेः-निरु० ३।१६। द्रष्टारं जीवम् (आसु) दृश्यमानासु प्रजासु (गृह्णते)गृह्णन्ति ॥