Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 3 / 52

उत्ते॑ स्तभ्नामिपृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम्। ए॒तां स्थूणां॑ पि॒तरो॑धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ॥52॥

Veda : Atharvaveda | Kand : 18 | Sukta : 3 | Paryay : | Mantra No : 52

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : भुरिक् त्रिष्टुप् | स्वर :

विषय : पितरों और सन्तानों के कर्तव्य का उपदेश।

पदपाठ : उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् । ए॒ताम् । स्थूणा॑म् । पि॒तर॑:। धा॒र॒य॒न्ति॒ । ते॒ । तत्र॑ । य॒म: । सद॑ना । ते॒ । कृ॒णो॒तु॒ ॥३.५२॥

पदार्थ : [हे मनुष्य !] (ते)तेरे लिये (पृथिवीम्) पृथिवी को (उत्) उत्तमता से (स्तभ्नामि) मैं [गृहस्थ]थाँभता हूँ, (त्वत् परि) तेरे सब ओर (इमम्) इस (लोगम्) निवासस्थान को (निदधत्)दृढ़ जमाता हुआ (अहम्) मैं (मो रिषम्) कभी न दुःख पाऊँ। (एताम्) इस (स्थूणाम्)नीव [घर की मूल] को (पितरः) पितर [रक्षक महात्मा लोग] (ते) तेरे लिये (धारयन्ति)धरते हैं, (तत्र) उस [नीव] पर (यमः) संयमी [शिल्पी जन] (ते) तेरे लिये (सदना)घरों को (कृणोतु) बनावे ॥५२॥"

भावार्थ :

टिप्पणी :५२−(उत्) उत्तमतया (ते)तुभ्यम् (स्तभ्नामि) ष्टभि गतिप्रतिबन्धे−श्ना। धारयामि। स्थापयामि (पृथिवीम्)भूमिम् (त्वत् परि) तव परितः (इमम्) (लोगम्) लुज लुजि हिंसाबलादाननिकेतनेषु-घञ्।चजोः कु घिण्यतोः। पा० ७।२।५२। इति कुत्वं घिति प्रत्यये। निवासस्थानम् (निदधत्)दृढं धारयन् (अहम्) गृहस्थः (मो रिषम्) मैव हिंसितो भूवम् (एताम्) (स्थूणाम्)रास्नासास्नास्थूणावीणाः। उ० ३।१५। ष्ठा गतिनिवृत्तौ-न प्रत्ययः, आकारस्य ऊइत्यादेशः। तिष्ठति गृहं यस्यां ताम्। गृहमूलम् (पितरः) पालका महात्मानः (धारयन्ति) धरन्ति (ते) तुभ्यम् (तत्र) गृहमूले (यमः) संयमी। शिल्पी (सदना)गृहाणि (ते) तुभ्यम् (कृणोतु) करोतु ॥