Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 3 / 60

शं॑ ते नीहा॒रोभ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्। शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ह्लादि॑कावति। म॑ण्डू॒क्य१॒॑प्सु शं भु॑व इ॒मं स्व१॒॑ग्निं श॑मय ॥60॥

Veda : Atharvaveda | Kand : 18 | Sukta : 3 | Paryay : | Mantra No : 60

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्र्यवसाना षट्पदा जगती | स्वर :

विषय : घर की रक्षा का उपदेश।

पदपाठ : शम् । ते॒ । नी॒हा॒र: । भ॒व॒तु॒ । शम् । ते॒ । प्रु॒ष्वा । अव॑ । शी॒य॒ता॒म् । शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒की । अ॒प्ऽसु । शम् । भु॒व॒: । इ॒मम् । सु । अ॒ग्निम् । श॒म॒य॒ ॥३.६०॥

पदार्थ : (ते) तेरे लिये (नीहारः) कुहरा (शम्) शान्तिदायक (भवतु) होवे, (ते) तेरे लिये (प्रुष्वा) वृष्टि (शम्) शान्ति से (अव शीयताम्) नीचे गिरे। (शीतिके) हे शीतल स्वभाववाली (शीतिकावति) हे शीतल क्रियाओंवाली (ह्लादिके) हे आनन्द देनेवाली (ह्लादिकावति)हे आनन्दयुक्त क्रियाओंवाली ! [प्रजा अर्थात् प्रत्येक स्त्री-पुरुष] (अप्सु)जल में (मण्डूकी) मेंडुकी [के समान] तू (शम्) शान्त (भुवः) हो, और (इमम्) इस (अग्निम्) आग [महासन्ताप] को (सु) अच्छे प्रकार (शमय) शान्त कर ॥६०॥"

भावार्थ :

टिप्पणी :६०−(शम्) सुखकरः (ते)तुभ्यम् (नीहारः) घनीभूतशिशिरम् (भवतु) (शम्) शान्तिप्रदः (ते) (प्रुष्वा)शीङ्क्रुशिरुहि०। उ० ४।११४। प्रुष स्नेहनसेवनपूरणेषु-क्वनिप्। वृष्टिपातः (अवशीयताम्) शीङ् स्वप्ने-भावे लोट्। अधो वर्तताम्। अधः पततु (शीतिके) स्वार्थेकन्, टाप्। उदीचामातः स्थाने यकपूर्वायाः। पा० ७।३।४६। अत इत्त्वम्। हेशीतलस्वभावे प्रजे (शीतिकावति) हे शीतलक्रियायुक्ते (ह्लादिके) ह्लादीसुखे-ण्वुल्। प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अतइत्त्वम्। हे सुखकारिणि (ह्लादिकावति) हे सुखवतीक्रियायुक्ते (मण्डूकी) मण्डूक-स्त्री यथा (अप्सु) जलेषु (शम्) शान्ता (भुवः) लेटि रूपम्। भवेः (इमम्) (सु)सुष्ठु (अग्निम्) सन्तापम्। विघ्नम् (शमय) शान्तं कुरु ॥