Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 4 / 44

इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥44॥

Veda : Atharvaveda | Kand : 18 | Sukta : 4 | Paryay : | Mantra No : 44

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : पितरों की सेवा का उपदेश।

पदपाठ : इ॒दम् । पूर्व॑म् । अप॑रम् । नि॒ऽयान॑म् । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । पु॒र॒:ऽग॒वा: । ये । अ॒भि॒ऽशाच॑: । अ॒स्य॒ । ते । त्वा॒ । व॒ह॒न्ति॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥४.४४॥

पदार्थ : [हे मनुष्य !] (इदम्)यह (पूर्वम्) पहिला और (अवरम्) पिछला (नियानम्) निश्चित मार्ग है, (येन) जिस से (ते) तेरे (पूर्वे) पहिले [प्रधान] (पितरः) पितर लोग (परेताः) बल के साथ गयेहैं। (ये) जो [पितर] (अस्य) इस [मार्ग] के (पुरोगवाः) आगे चलनेवाले और (अभिशाचः)सब प्रकार उपदेश करनेवाले हैं, (ते) वे [पितर] (त्वा) तुझको (सुकृताम्)सुकर्मियों के (उ) ही (लोकम्) समाज में (वहन्ति) पहुँचाते हैं ॥४४॥"

भावार्थ :

टिप्पणी :४४−(इदम्) पितृसेवारूपमाचरणम् (पूर्वम्) पुरातनम् (अपरम्) अर्वाचीनम् (नियानम्) निश्चितमार्गः (येन) मार्गेण (ते) तव (पूर्वे) प्रथमपदस्थाः प्रधानाः (पितरः) पालका विद्वांसः (परेताः) परा प्राधान्येन गताः (पुरोगवाः)गोरतद्धितलुकि। पा० ५।४।९२। इति पुरः+गो-टच्, तत्पुरुषे समासान्तः। अग्रगामिनः (ये) पितरः (अभिशाचः) वहश्च। पा० ३।२।६४। अभि+शच व्यक्तायां वाचि−ण्विप्रत्ययोबाहुलकात् सर्वत उपदेशकाः (अस्य) नियानस्य। निश्चितमार्गस्य (ते) पितरः (त्वा)त्वां पितृसेवकम् (वहन्ति) प्रापयन्ति (सुकृताम्) पुण्यकर्मणाम् (उ) निश्चयेन (लोकम्) समाजम् ॥