Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 11 / 8

स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व᳡र॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥ 8॥

Veda : Atharvaveda | Kand : 20 | Sukta : 11 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : विश्वामित्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒:ऽदाम् । स॒स॒ऽवांस॑म् । स्व॑:। अ॒प: । च॒ । दे॒वी: ॥ स॒सान॑ । य: । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णास: ॥११.८॥

पदार्थ : (यः) जिस [वीर] ने (इमाम्) इस (पृथिवीम्) पृथिवी (उत) और (द्याम्) आकाश को (ससान) सेवा है, [उस] (सत्रासाहम्) सत्यों के सहनेवाले, (वरेण्यम्) स्वीकार करने योग्य, (सहोदाम्) बल के देनेवाले, (स्वः) सुख (च) और (देवीः) उत्तम (अपः) प्राणों के (ससवांसम्) दान करनेवाले, (इन्द्रम्) इन्द्र [महाप्रतापी वीर] के (अनु) पीछे (धीरणासः) उत्तम बुद्धियों के लिये युद्ध करनेवाले लोग (मदन्ति) सुख पाते हैं ॥८॥"

भावार्थ :

टिप्पणी :८−(सत्रासाहम्) यः सत्रा सत्यानि सहते तम् (वरेण्यम्) स्वीकरणीयम् (सहोदाम्) बलस्य दातारम् (ससवांसम्) षणु दाने-क्वसु। दत्तवन्तम् (स्वः) सुखम् (अपः) प्राणान् (च) (देवीः) दिव्याः (ससान) षण सम्भक्तौ-लिट्। सेवितवान्। उपयुक्तवान् (यः) इन्द्रः (पृथिवीम्) भूमिम्। भूमिस्थपदार्थानित्यर्थः (द्याम्) आकाशम्। आकाशस्थपदार्थानित्यर्थः (उत) अपि च (इमाम्) दृश्यमानाम् (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (मदन्ति) हृष्यन्ति (अनु) अनुसृत्य (धीरणासः) धीः प्रज्ञानाम-निघ० ३।९। रणः संग्रामनाम-निघ० २।१७। असुगागमः। धीभ्यः प्रशस्तप्रज्ञाभ्यो रणः सङ्ग्रामो येषां ते ॥