Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 15 / 6

त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ। अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥6॥

Veda : Atharvaveda | Kand : 20 | Sukta : 15 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : गोतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : सभाध्यक्ष के गुणों का उपदेश।

पदपाठ : त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हान् । उ॒रुम् । वज्रे॑ण ॥ व॒ज्र‍ि॒न् । प॒र्व॒ऽश: । च॒क॒र्ति॒थ॒ ॥ अव॑ । अ॒सृ॒ज॒: । निऽवृ॑ता: । सर्त॒वै । अ॒प: । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सह॑: ॥१५.६॥

पदार्थ : (वज्रिन्) हे वज्रधारी (इन्द्र) इन्द्र ! [महाप्रतापी राजन्] (त्वम्) तूने (तम्) उस (महाम्) बड़े, (उरुम्) चौड़े (पर्वतम्) पहाड़ के (वज्रेण) वज्र [हथियारों के झुण्ड] से (पर्वशः) टुकड़े-टुकड़े करके (चकर्तिथ) काट डाला है। और (निवृतः) रोके हुए (अपः) जलों को (सर्तवै) बहने के लिये (अव असृजः) छोड़ दिया है, (सत्रा) सत्य रूप से (विश्वम्) सम्पूर्ण, (केवलम्) असाधारण (सहः) बल को (दधिषे) तूने धारण किया है ॥६॥"

भावार्थ :

टिप्पणी :६−(त्वम्) (तम्) प्रसिद्धम् (इन्द्र) महाप्रतापिन् राजन् (पर्वतम्) शैलम् (महाम्) नकारतकारयोर्लोपः। महान्तम् (उरुम्) विस्तीर्णम् (वज्रेण) आयुधसमूहेन (वज्रिन्) हे शस्त्रास्त्रधारिन् (पर्वशः) खण्डशः (चकर्तिथ) कृती छेदने-लिट्। छिन्नवानसि (अवासृजः) मुक्तवानसि (निवृताः) निवारिताः। निरुद्धाः (सर्तवै) सरतेः कृत्यार्थे तवैप्रत्ययः। सरणाय। वहनाय (अपः) जलानि (सत्रा) सत्यरूपेण (विश्वम्) सर्वम् (दधिषे) धारितवानसि (केवलम्) असाधारणम् (सहः) बलम् ॥