Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 21 / 8

त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ 8॥

Veda : Atharvaveda | Kand : 20 | Sukta : 21 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : सव्यः | देवता : इन्द्रः | छन्द : जगती | स्वर :

विषय : मनुष्यों के कर्तव्य का उपदेश।

पदपाठ : त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धी॒: । तेजि॑ष्ठ्या । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी ॥ त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुर॑: । अ॒न॒नु॒ऽद: । परि॑ऽसूता: । ऋ॒जिश्व॑ना ॥२१.८॥

पदार्थ : [हे राजन् !] (त्वम्) तूने (करञ्जम्) हिंसक (उत) और (पर्ण्यम्) पालन वस्तुओं को लेनेवाले [चोर] को (अतिथिग्वस्य) अतिथियों को प्राप्त होनेवाले पुरुष के (तेजिष्ठया) अत्यन्त तेजस्वी (वर्तनी) मार्ग से (वधीः) मारा है। (त्वम्) तूने (वङ्गृदस्य) मार्ग तोड़नेवाले (अननुदः) अनुकूल न वर्तनेवाले दुष्ट के (ऋजिश्वना) सरलस्वभाव पुरुषों के बढ़ानेवाले [आप] करके (परिषूताः) घेरे हुए (शता) सैकड़ों (पुरः) दुर्गों को (अभिनत्) तोड़ा है ॥८॥"

भावार्थ :

टिप्पणी :८−(त्वम्) (करञ्जम्) कॄ हिंसने-अञ्जन् औणादिकः प्रत्ययः। कृणाति हिनस्तीति करञ्जस्तम्। हिंसकम् (उत) अपि च (पर्ण्यम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-नप्रत्ययः+या प्रापणे-कप्रत्ययः। पर्णानां पालनवस्तूनां यातारं ग्रहीतारं चोरम् (वधीः) हन्तेर्लुङि वधादेशोऽडभावश्च। अवधीः। हतवानसि (तेजिष्ठया) तेजस्विन्-इष्ठन्। विन्मतोर्लुक्। पा० ।३।६। इति विनो लुक्। अतिशयेन तेजस्विन्या (अतिथिग्वस्य) अतिथि+गमेः-औणादिको ड्वप्रत्ययः। अतिथीनां विदुषां पुरुषाणां प्रापकस्य (वर्तनी) वृतु वर्तने-ल्युट्, ङीप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। वर्तन्या पथा (त्वम्) (शता) शतानि (वङ्गृदस्य) दिवेर्ऋ। उ० २।९९। वगि गतौ-ऋप्रत्ययः+दो अवखण्डने-कप्रत्ययः। यो वङ्गॄन् मार्गान् द्यति खण्डयतीति तस्य। सन्मार्गभेदकस्य (अभिनत्) भिदिर् विदारणे-लङ् सिपि। इतश्च। पा० ३।४।१००। इकारलोपः। हलङ्याब्भ्यो०। पा० ६।१।६८। इति सकारलोपः। दश्च। पा० ८।२।७। इति रुत्वदकारयोर्विकल्पः। अभिनः। त्वं भिन्नवानसि (पुरः) शत्रुदुर्गान् (अननुदः) अननु+ददातेः-क्विप्। योऽनुकूलं न ददाति तस्य (परिषूताः) षू प्ररणे-क्त। परिवेष्टिताः (ऋजिश्वना) इगुपधात् कित्। उ० ४।१२०। ऋज आर्जवे-इन्, स च कित्। श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। ऋजीनां सरलस्वभावानां वर्धकेन त्वया ॥