Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 34 / 15

यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥ 15॥

Veda : Atharvaveda | Kand : 20 | Sukta : 34 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : गृत्समदः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर के गुणों का उपदेश।

पदपाठ : य: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥

पदार्थ : (यः) जो [परमेश्वर] (सुन्वन्तम्) तत्त्व निचोड़ते हुए को, (यः) जो (पचन्तम्) पक्के करते हुए को, (यः) जो (शंसन्तम्) गुण बखानते हुए को, (यः) जो (शशमानम्) उद्योग करते हुए को (ऊती) अपनी रक्षा से (अवति) पालता है। (यस्य) जिसका (ब्रह्म) वेद, (यस्य) जिसका (सोमः) मोक्ष और (यस्य) जिसका (इदम्) यह (राधः) धन (वर्धनम्) वृद्धिरूप है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१॥"

भावार्थ :

टिप्पणी :[सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१−(यः) परमेश्वरः (सुन्वन्तम्) तत्त्वं निष्पादयन्तम् (अवति) पालयति (यः) (पचन्तम्) परिपक्वं कुर्वन्तम् (यः) (शंसन्तम्) गुणान् वर्णयन्तम् (यः) (शशमानम्) शश प्लुतगतौ-शानच्। उद्योगं कुर्वन्तम्। (ऊती) रक्षया (यस्य) (ब्रह्म) वेदः (वर्धनम्) वृद्धिरूपम् (यस्य) (सोमः) मोक्षः (यस्य) (इदम्) (राधः) धनम्। अन्यद् गतम् ॥