Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 72 / 1

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्व᳡: सनि॒ष्यवः॒ पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 20 | Sukta : 72 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : परुच्छेपः | देवता : इन्द्रः | छन्द : अत्यष्टिः | स्वर :

विषय : परमेश्वर की उपासना का उपदेश।

पदपाठ : विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यव: । पृथ॑क् । स्व॑१॒रिति॑ स्व॑: । स॒नि॒ष्यव॑: । पृथ॑क् ॥ तम् । त्वा॒ । नाव॑म् । न । प॒र्वणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ॥ इन्द्र॑म् । न । य॒ज्ञै: । चि॒तय॑न्त: । आ॒यव॑: । स्तोमे॑भि: । इन्द्र॑म् । आ॒यव॑: ॥७२.१॥

पदार्थ : [हे परमेश्वर !] (विश्वेषु) सब (हि) ही (सवनेषु) ऐश्वर्ययुक्त पदार्थों में (समानम्) एकरस व्यापक (एकम्) एक, (स्वः) सुखस्वरूप (त्वा) तुझको (वृषमण्यवः) बलवान् के समान तेजवाले, और (सनिष्यवः) देने योग्य धन को चाहनेवाले पुरुष (पृथक् पृथक्) अलग-अलग (तुञ्जते) ग्रहण करते हैं। (नावम् न) नाव के समान (पर्षणिम्) पार लगानेवाले (तम्) उस (त्वा) तुझ (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा], (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (शूषस्य) बल की (धुरि) धुरी [धारणशक्ति] में (यज्ञैः) यज्ञों [श्रेष्ठ व्यवहारों] से और (स्तोमेभिः) प्रशंसनीय गुणों से (चितयन्तः) चिन्तवन करते हुए (आयवः) पुरुषार्थी (आयवः न) मनुष्यों के समान (धीमहि) हम धारण करें ॥१॥"

भावार्थ :

टिप्पणी :यह तृच ऋग्वेद में है-१।१३१।२, ३, ६ ॥ १−(विश्वेषु) सर्वेषु (हि) निश्चयेन (त्वा) त्वाम् (सवनेषु) ऐश्वर्ययुक्तेषु पदार्थेषु (तुञ्जते) तुजि हिंसाबलादाननिकेतनेषु-लट्। गृह्णन्ति समानम् एकरसव्यापकम् (एकम्) अद्वितीयम् (वृषमण्यवः) यजिमनिशुन्धि०। उ० ३।२०। मन ज्ञाने दीप्तौ च-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। वृषस्य बलवतः पुरुषस्य तेज इव तेजो येषां ते (पृथक्) भिन्नप्रकारेण (स्वः) सुखस्वरूपम् (सनिष्यवः) सर्वधातुभ्य इन्। उ० ४।११८। षणु दाने-इन्। सुप आत्मनः क्यच्। पा० ३।१।८। सनि-क्यच्। सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० पा० ७।१। सुगागमः। क्याच्छन्दसि। पा० ३।२।१७०। उप्रत्ययः। दातव्यधनमिच्छवः (पृथक्) (तम्) तादृशम् (त्वा) त्वाम् (नावम्) नौकाम् (न) इव (पर्षणिम्) अर्त्तिसृधृ०। उ० २।१०२। पॄ पालनपूरणयोः-अनिप्रत्ययः षुगागमः। पारयितारम् (शूषस्य) बलस्य (धुरि) धृञ् धारणे-क्विप्। बहुलं छन्दसि। पा० ७।१।१०३। इति उरादेशः। यानमुखे। धारणशक्तौ (धीमहि) दधातेः-लिङ्। धरेम (इन्द्रम्) परमेश्वरम् (न) इव (यज्ञैः) श्रेष्ठव्यवहारैः (चितयन्तः) चिती संज्ञाने-णिच्, शतृ। गुणाभावः। चेतयन्तः। स्मरन्तः (आयवः) छन्दसीणः। उ० १।२। इण् गतौ-उण्। गतिमन्तः पुरुषार्थिनः (स्तोमेभिः) प्रशंसनीयगुणैः (इन्द्रम्) परमेश्वरम् (आयवः) मनुष्याः निघ० २।३ ॥