Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 89 / 8

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्। नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥ 8॥

Veda : Atharvaveda | Kand : 20 | Sukta : 89 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : कृष्णः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : प्र । यम् । अ॒न्त: । वृ॒ष॒ऽस॒वास॑: । अज्म॑न् । ती॒व्रा: । सोमा॑: । ब॒हु॒लऽअ॑न्तास: । इन्द्र॑म् ॥ न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८९.८॥

पदार्थ : (यम्) जिस (इन्द्रम्) इन्द्र [बड़े प्रतापी मनुष्य] को (वृषसवासः) बलवानों को ऐश्वर्य देनेवाले, (तीव्राः) तीक्ष्ण स्वभाववाले और (बहुलान्तासः) बहुत ज्ञान को अन्त [सिद्धान्त] में रखनेवाले (सोमाः) सोम [तत्त्वरस] (अन्तः) भीतर [हृदय में] (प्र अग्मन्) प्राप्त हो गये हैं। (मघवा) वह धनवान् पुरुष (अह) निश्चय करके (दामानम्) दान को (न) नहीं (नि यंसत्) रोक सकता है वह (सुन्वते) तत्त्वरस निचोड़नेवाले को (भूरि) बहुत (वामम्) उत्तम धन (नि) नित्य (वहति) पहुँचाता है ॥८॥"

भावार्थ :

टिप्पणी :८−(प्र) प्रकर्षेण (यम्) (अन्तः) मध्ये। हृदये (वृषसवासः) वृषभ्यो बलवद्भ्यः सवाः ऐश्वर्याणि सकाशात् ते तथाभूताः (अग्मन्) प्राप्तवन्तः (तीव्राः) तीक्ष्णाः (सोमाः) तत्त्वरसाः (बहुलान्तासः) बहुलं बहुज्ञानम् अन्ते सिद्धान्ते येषां ते (इन्द्रम्) महाप्रतापिनं पुरुषम् (न) निषेधे (अह) एव (दामानम्) ददातेः-मनिन्। दानम् (मघवा) धनवान् (नि) (यंसत्) यमु उपरमे-लेट्। उपरतं निरुद्धं कुर्यात् (नि) नित्यम् (सुन्वते) तत्त्वं निष्पादयते पुरुषाय (वहति) प्रापयति (भूरि) प्रभूतम् (वामम्) वननीयं धनम् ॥