Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 125 / 3

न॒हि स्थूर्यृ॑तु॒था या॒तम॑स्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑। ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥ 3॥

Veda : Atharvaveda | Kand : 20 | Sukta : 125 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : सुर्कीतिः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा के धर्म का उपदेश।

पदपाठ : न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रव॑: । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ॥ ग॒व्यन्त॑: । इन्द्र॑म् । स॒ख्याय॑ । विप्रा॑: । अ॒श्व॒ऽयन्त॑: । वृष॑णम् । वा॒जय॑न्त: ॥१२५.३॥

पदार्थ : (स्थूरि) ठहरा हुआ [ढीला] काम (ऋतुथा) ऋतु के अनुसार [ठीक समय पर] (यातम्) पाया हुआ (नहि) नहीं (अस्ति) होता है, (उत) और [इसी कारण] (संगमेषु) समाजों [वा संग्रामों] में (श्रवः) यश (न) नहीं (विविदे) मिलता है, (सख्याय) मित्रता के लिये (वृषणम्) बलवान् (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले राजा] को (वाजयन्तः) वेगवान् बनाते हुए (विप्राः) बुद्धिमान् लोग (गव्यन्तः) भूमि चाहते हुए और (अश्वायन्तः) घोड़े चाहते हुए हैं ॥३॥"

भावार्थ :

टिप्पणी :३−(नहि) न कदापि (स्थूरि) स्थः किच्च। उ० ।४। ष्ठा गतिनिवृत्तौ-ऊरन्। गतिशून्यं प्रवृत्तिरहितं कर्म (ऋतुथा) ऋतौ। निश्चितसमये (यातम्) प्राप्तं समाप्तम् (अस्ति) (न) निषेधे (उत) अपि (श्रवः) यशः (विविदे) लडर्थे लिट्। लभ्यते प्राप्यते (संगमेषु) समाजेषु। संग्रामेषु (गव्यन्तः) भूमिमिच्छन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (सख्याय) सखिकर्मणे (विप्राः) मेधाविनः (अश्वायन्तः) तुरगानिच्छन्तः (वृषणम्) बलवन्तम् (वाजयन्तः) वेगवन्तं कुर्वन्तः ॥