Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 127 / 11

इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्। ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ॥ 11॥

Veda : Atharvaveda | Kand : 20 | Sukta : 127 | Paryay : | Mantra No : 11

In Hindi:

ऋषि : | देवता : प्रजापतिरिन्द्रो वा | छन्द : अनुष्टुप् | स्वर :

विषय : राजा के धर्म का उपदेश।

पदपाठ : इन्द्र॑: । का॒रुम् । अ॑बूबुध॒त् । उत्ति॑ष्ठ । वि । चर॒ । जन॑म् ॥ मम । इत् । उ॒ग्रस्य॑ । चर्कृ॑धि॒ । सर्व॒: । इत् । ते॑ । पृ॒णात् । अ॒रि: ॥१२७.११॥

पदार्थ : (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] ने (कारुम्) काम करनेवाले को (अबूबुधत्) जगाया है−(उत्तिष्ठ) उठ और (जनम्) लोगों में (वि चर) विचर, (मम इत् उग्रस्य) मुझ ही तेजस्वी की [भक्ति] (चर्कृधि) तू करता रहे, (सर्वः) प्रत्येक (अरिः) वैरी (इत्) भी (ते) तेरी (पृणात्) तृप्ति करे ॥११॥"

भावार्थ :

टिप्पणी :११−(इन्द्रः) परमैश्वर्यवान् राजा (कारुम्) कार्यकर्तारम् (अबूबुधत्) प्रबोधितवान् (उत्तिष्ठ) (वि) विविधम् (चर) गच्छ (जनम्) मनुष्यसमूहम् (मम) (इत्) एव (उग्रस्य) तेजस्विनः (चर्कृधि) करोतेः-यङ्लुकि रूपम्। भृशं भक्तिं कुरु (सर्वः) प्रत्येकः (इत्) (ते) तव (पृणात्) पृण प्रीणने। तृप्तिं कुर्यात् (अरिः) शत्रुः ॥