Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 128 / 2

यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति। ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ॥ 2॥

Veda : Atharvaveda | Kand : 20 | Sukta : 128 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : | देवता : प्रजापतिरिन्द्रो वा | छन्द : निचृदनुष्टुप् | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : य: । जा॒म्या । अप्र॑थय॒: । तत् । यत् । सखा॑य॒म् । दुधू॑र्षति ॥ ज्येष्ठ॒: । यत् । अ॑प्रचेता॒: । तत् । आ॑हु: । अध॑रा॒क् । इति॑ ॥१२८.२॥

पदार्थ : (यः) जो मनुष्य, (जाम्याः) कुल स्त्री को (अप्रथयः) गिराता है, (तत्) वह पुरुष, और (यत्) जो (सखायम्) मित्र को (दुधूर्षति) मारना चाहता है, और (यत्) जो (ज्येष्ठः) अति वृद्ध होकर (अप्रचेताः) अज्ञानी है, (तत्) वह (अधराक्) अधोगामी है−(इति) ऐसा (आहुः) वे लोग कहते हैं ॥२॥"

भावार्थ :

टिप्पणी :२−(यः) पुरुषः (जाम्याः) अथ० २।७।२। द्वितीयार्थे षष्ठी। जामिम्। कुलस्त्रियम् (अप्रथयः) पृथ प्रक्षेपे। प्रक्षिपति। अधोगमयति (तत्) सः (यत्) यः (सखायम्) (दुधूर्षति) धुर्वी हिंसायाम्-सन्। हन्तुमिच्छति (ज्येष्ठः) अतिवृद्धः सन् (यत्) यः (अप्रचेताः) अपण्डितः (तत्) सः (आहुः) कथयन्ति ते विद्वांसः (अधराक्) अधोगामी भवति (इति) वाक्यसमाप्तौ ॥